2026-01-24 16:06:24 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">50
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<p lang="sa">भ्रखण्डेन सुकुमारतूलभरिततुंगदुकूलपरिधानशेखरितभागेन धवलकंब -
लेन सनाथीकृतं भुक्त्वा स्थानमंटपमधिरूढः कृततीर्थसेवनः भगवान्
शुश्रूषया समागत्य सेवमानानां सुधियां केनचिदतिसमीपोपविष्टेन
मधुरस्वनेन पवनलिपिग्रहणेन विदुषा शिष्येण पठ्यमानस्य महतो
भागवतवाक्यसंचयस्य तत्त्वभावमर्थतात्पर्यं बोधयन्नेव वासरमनैषीत् ।
</p>
<verse lang="sa">तस्योदतं जगदुपकृतौ योगिनो जागरूकं
मध्येवारांनिधि मधुरिपोर्मारुताशींद्रमंचे।
निद्राभाजः कथयितुमिव द्वेषिणो दानवानां
प्रापत्कूटं सपदि तपनः पश्चिमक्ष्माधरस्य ॥
</verse>
<verse lang="sa">विहितसकलसंध्याकर्मणचेतसा त-
द्दमशममृदुभाजो ध्यायतो वासुदेवम् ।
जनयितुमतिनिद्रामक्षमा तस्य भिक्षो-
रजनिरपययौ सा तर्जितेव क्षणेन ॥
</verse>
<p lang="sa">एवमपयातेषु बहुषु पुंखानुपुंखभूपति बहुमानेषु दिनेषु ।
कदाचिन्निर्दयाभ्यामर्दनविहारसहनदोर्दण्डैस्सामंतनृपशार्दूलैस्संमर्दितां
विवेकरंहस्विभिरमात्यसिंहैः परिबृंहितां विविधानां पुरोधसामुपरोधेन
समेधितसंबाधामत्यद्भुतयुक्तिभिस्तटस्थैर्विद्वद्भिरुपासीनां परिपंधिगिरिघ-
टापक्षविक्षोभणपविभिः कविभिः संभावितामपारविस्मयभारोदरैः पौरैः
परिपूरितामगणनापदैर्जानपदैरासादिताममंदसुंदरस्तुतिकन्दलनन्दनीयैर्वं
दिभिस्तुंदिलितां
प्रतिभटविपिनदावपावकैस्सेवकैरेकीकृतामास्थानीं
महीयसीं सुधर्मामिव सुरपतेरधिवसतो नरपतेर्नरसिंहस्य समक्षं
चिरादुक्तधर्मातितिक्षवः कामिन इव कलितावलेपा:, करटिन इव
कल्लोलितमदभराश्शक्रइवसमाहृतबहुमन्यव: पुंजीभूतविद्यातिरेकादहम-
</p>
</page>