This page has not been fully proofread.

50
 
श्रीव्यासयोगिचरितम्
 
भ्रखण्डेन सुकुमारतूलभरिततुंगदुकूलपरिधानशेखरितभागेन धवलकंब -
लेन सनाथीकृतं भुक्त्वा स्थानमंटपमधिरूढः कृततीर्थसेवनः भगवान्
शुश्रूषया समागत्य सेवमानानां सुधियां केनचिदतिसमीपोपविष्टेन
मधुरस्वनेन पवनलिपिग्रहणेन विदुषा शिष्येण पठ्यमानस्य महतो
भागवतवाक्यसंचयस्य तत्त्वभावमर्थतात्पर्यं बोधयन्नेव वासरमनैषीत् ।
 
तस्योदतं जगदुपकृतौ योगिनो जागरूकं
मध्येवारांनिधि मधुरिपोर्मारुताशींद्रमंचे।
निद्राभाजः कथयितुमिव द्वेषिणो दानवानां
प्रापत्कूटं सपदि तपनः पश्चिमक्ष्माधरस्य ॥
 
विहितसकलसंध्याकर्मणचेतसा त-
 
द्दमशममृदुभाजो ध्यायतो वासुदेवम् ।
जनयितुमतिनिद्रामक्षमा तस्य भिक्षो-
 
रजनिरपययौ सा तर्जितेव क्षणेन ॥
 
एवमपयातेषु बहुषु पुंखानुपुंखभूपति बहुमानेषु दिनेषु ।
कदाचिन्निर्दयाभ्यामर्दनविहारसहनदोर्दण्डैस्सामंतनृपशार्दूलैस्संमर्दितां
विवेकरंहस्विभिरमात्यसिंहैः परिबृंहितां विविधानां पुरोधसामुपरोधेन
समेधितसंबाधामत्यद्भुतयुक्तिभिस्तटस्थैर्विद्वद्भिरुपासीनां परिपंधिगिरिघ-
टापक्षविक्षोभणपविभिः कविभिः संभावितामपारविस्मयभारोदरैः पौरैः
परिपूरितामगणनापदैर्जानपदैरासादिताममंदसुंदरस्तुतिकन्दलनन्दनीयैर्वं
 
दिभिस्तुंदिलितां
 
प्रतिभटविपिनदावपावकैस्सेवकैरेकीकृतामास्थानीं
 
महीयसीं सुधर्मामिव सुरपतेरधिवसतो नरपतेर्नरसिंहस्य समक्षं
चिरादुक्तधर्मातितिक्षवः कामिन इव कलितावलेपा:, करटिन इव
कल्लोलितमदभराश्शक्रइवसमाहृतबहुमन्यव: पुंजीभूतविद्यातिरेकादहम-