2026-01-24 15:17:23 by ambuda-bot
This page has not been fully proofread.
चतुर्थोल्लासः
नृपनलनहुषादेर्नीतिमार्गाध्वनीन
सकल इव दिगंतैः केवलं कीर्तिभावैः ।
भुजजितभुजगस्त्वं भूप तेनातिशेषे
गुरुमपि वचनानां कोमलानां महिम्ना ॥
49
49
इत्यनुगृह्णत्येव भगवति महानुभावे व्यासयोगिनि घटिकाविभागप्र-
कटनपटुः पटहनिध्वानबंधुर्मध्यंदिनसमयशङ्की शङ्खस्य गंभीरध्वनिरुदजूं-
भत । निशम्य तावदुचितज्ञेन भगवतोऽतिक्रामति देवताराधनसमय
इति विज्ञाप्य सह राजलोकैरुत्थितेन प्रांजलिना दूरमुपगम्य तेन
वसुधाधिपेन विसृज्यमानो विबुधैरावेष्ट्यमानो मंत्रिभिराभाष्यमाणः
पुरोहितैरालोक्यमानश्शिष्यैरनुनीयमानो वंदिभिरभिष्ट्रयमानः पौरजनैर-
भिवंद्यमानो ब्रह्मसंघैस्स भगवान् व्यासयोगी भुवनबंधुनाम्ना
सचिवाधिपेन निर्दिष्टनिर्दिष्टनरपतिप्रहिताभिर्विविधाभिस्सपदातिभिस्स-
मग्रामतिविशालामनेकशालबद्धवितानामपरिमितस्थूणामभ्रंकषसौधशि-
खराममृतमयवापिकामभिनवामपरामिव वैकुंठभुवमवनितलमवतीर्णा-
मिव पितामहावसतिं शाश्वतीं मठोपकार्यां शनैरशनैः प्राविशत् ॥
पदार्थसंघैर्ललितैः परिष्कृतं प्रवृत्ततालध्वनिलक्षणांचितम् ।
कविप्रबंधं यशसेव नायको विगाह्य भूम्रा स मठं समैधत ॥
तत्रोदारै रुचितवचनैस्ताननुज्ञाय सर्वान्
स्वस्वावासं प्रति सविनयं कल्प्यमानप्रणामान् ।
पूतैस्स्नातस्तदनु सलिलैः पूजयित्वा स देवं
साकं भिक्षामकृत बहुभिः कोविदग्रामणीभिः ॥
तदनु महापरिणाहेन मृगपतिपोतसटाव्यापृतेनेव पेशलेन
चित्ररल्लकदंशितोपरिभागेन शतमखचापपटलीशलाकानुबंधेनेव शारदा-