2026-01-24 16:05:32 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">48
.
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<p lang="sa">जनितामिव मुक्तां घनतरकारुण्यरसदुग्धरसपिण्डितामिव गंधगुलिकाम्
अंजलिना सबहुमानमादधानो लोचनस्पर्शपुरस्सरं शीर्षे निधाय
भक्तया स्वयमेव दत्तहस्तावलंबनो महीपतिः तं तापसकेसरिणं
गिरिशृंगमिव तुंगकृष्णाजिनोत्तरासंगं वेत्रासनमारोप्य विधिवदभ्यर्चया-
मास । तदनु तदनुमत्या स्वयमपि दूरतः कृतात्मोपवेशो विनयविकचां
वाचमवोचत्। भगवन् ! प्रतिसमुन्मिषितं मम प्राक्तनसुचरितसंदोहेन ।
अयं खलु पलायनसमयो मदीयस्य दुरितस्य । शोधनोपलेनेव
मणिमुकुरमद्यतनेन भगवदागमनेन निर्मलितमात्मकुलम् । अधुना
विमुंचति मम चक्षुश्चिरेण भगवदनुभाववर्णनाकर्णनसमुदीर्णसुखपूर्णयोर्क-
र्णयोरीर्ष्या, भुवनमिव भगवदधिष्ठानत्वेन सकलमुनिवृंदवंदितस्य
सनंदनस्य सन्निधानेन संदानितं बिभिंद परमानंदं सत्यलोकस्य ।
मन्येऽहमिदानीं भगवतो दर्शनादेकतमविरहविधुरमतिस्निग्धमर्यमवर्गम् ।
</p>
<verse>इत्यूचुषो नरपतेर्नरसिंहभाव-
माकारगोपिकलयन्निव भास्वराभिः ।
दंतावलीविसृमरद्युतिपूलिकाभिः
संप्रत्यवोचत मुदा यतिसार्वभौमः ॥
</verse>
<p lang="sa">राजन्नैसर्गिकी खलु तवान्वयस्य परार्ध्यसमाधीनां साधूनामेवंविधा
समाराधनविधिबद्धा श्रद्धा । किं ब्रूमस्ते विचित्राणि चरित्राणि
प्रवर्तयंति यानि देशेषु कण्टकारीणामेककालनाशं ध्रुवम् । दर्शयंति
यानि सांपरायकनिहतरिपुमहीपालेषु युगपदेव वयसां वियोगयोगौ ।
कारयंति यानि द्वीपांतरेषु प्रतापचकितसामंतकरांशानामेकदैव-
च्छेदलाभौ। अपारयंति यानि वैरिनगरेषु सममेव केतूनाममोकामोकौ ।
किं बहुना -
</p>
</page>