This page has not been fully proofread.

48
 
.
 
श्रीव्यासयोगिचरितम्
 
जनितामिव मुक्तां घनतरकारुण्यरसदुग्धरसपिण्डितामिव गंधगुलिकाम्
अंजलिना सबहुमानमादधानो लोचनस्पर्शपुरस्सरं शीर्षे निधाय
भक्तया स्वयमेव दत्तहस्तावलंबनो महीपतिः तं तापसकेसरिणं
गिरिशृंगमिव तुंगकृष्णाजिनोत्तरासंगं वेत्रासनमारोप्य विधिवदभ्यर्चया-
मास । तदनु तदनुमत्या स्वयमपि दूरतः कृतात्मोपवेशो विनयविकचां
वाचमवोचत्। भगवन् ! प्रतिसमुन्मिषितं मम प्राक्तनसुचरितसंदोहेन ।
अयं खलु पलायनसमयो मदीयस्य दुरितस्य । शोधनोपलेनेव
मणिमुकुरमद्यतनेन भगवदागमनेन निर्मलितमात्मकुलम् । अधुना
विमुंचति मम चक्षुश्चिरेण भगवदनुभाववर्णनाकर्णनसमुदीर्णसुखपूर्णयोर्क-
र्णयोरीर्ष्या, भुवनमिव भगवदधिष्ठानत्वेन सकलमुनिवृंदवंदितस्य
सनंदनस्य सन्निधानेन संदानितं बिभिंद परमानंदं सत्यलोकस्य ।
मन्येऽहमिदानीं भगवतो दर्शनादेकतमविरहविधुरमतिस्निग्धमर्यमवर्गम् ।
इत्यूचुषो नरपतेर्नरसिंहभाव-
 
माकारगोपिकलयन्निव भास्वराभिः ।
दंतावलीविसृमरद्युतिपूलिकाभिः
 
संप्रत्यवोचत मुदा यतिसार्वभौमः ॥
 
राजन्नैसर्गिकी खलु तवान्वयस्य परार्ध्यसमाधीनां साधूनामेवंविधा
समाराधनविधिबद्धा श्रद्धा । किं ब्रूमस्ते विचित्राणि चरित्राणि
प्रवर्तयंति यानि देशेषु कण्टकारीणामेककालनाशं ध्रुवम् । दर्शयंति
यानि सांपरायकनिहतरिपुमहीपालेषु युगपदेव वयसां वियोगयोगौ ।
कारयंति यानि द्वीपांतरेषु प्रतापचकितसामंतकरांशानामेकदैव-
च्छेदलाभौ। अपारयंति यानि वैरिनगरेषु सममेव केतूनाममोकामोकौ ।
 
किं बहुना -