2026-01-24 15:17:23 by ambuda-bot
This page has not been fully proofread.
चतुर्थोल्लासः
47
रिव पावनीभिः पदनखदीधितिभिर्मणिकुट्टिमेषु पिष्टोपलचूर्णप्रसाधन-
रेखा इव कल्पयंतं तिलकजलकर्बुरितवासवमणिसंवलितकार्तस्वरवसुधा-
तलकिरणनाळेनेव अन्यादृशविश्राणनाभ्यसिषया
समुपागतेनेव
कल्पलतास्तंभेनेव भुजाभिरामतानिर्जितैर्वेणुकुलैर्निरंतर सेवनाय प्रोषिते
नेव मुष्टिधारितेन तनुतरेण दण्डेनाघ्रातवामभुजशिखरं पावनतीर्थोदकप-
रिपूरितं लंबमानमिव करतलरेखाकलबिंबं पञ्जरमिव नियमशुकस्य
पद्मरागकमण्डुलुं हस्तेनापसव्येन धारयंतं श्रवणकुहरसततनिपतद्वासुदेव-
कथातरंगिणीलग्नशैवलमंजरीकयेव तरुणतुलसीकर्णपूरिकया श्यामलित-
कपोलपालिं प्राथमिकमलयानिलमृदुलास्यदलनालालनदरदळितचंपकद-
ळपिञ्जरेण कौशेयकेन परिकलितमूर्धानं, फणिकुलफणामणिमसृणितसुर-
सिन्धुलहरीशिखरितमिव भगवंतं महादेहं, स्निग्धतारकेण कारुण्यतटाक-
परीवाहेण प्रगल्भविक्षेपणचक्षुषा त्रिभुवनीमिव तृणीकुर्वाणं,
पञ्चमुद्रिकापुष्कलित ऊर्ध्वपुण्ड्रकापरिमण्डितम्, अश्रोतारं कलिविलसि-
तानाम्, अनभिज्ञममर्षस्य, वैदेशिकं रागराज्यस्य दुर्लभमहंकारस्य
दूरीकारं मदविकाराणाम् आप्तबंधुमार्जवस्य प्रत्यूहमशुभानाम्,
अमार्गमनृतस्य, गणनीयं मोहस्य, विलासं विश्राणनस्यांगीकारमखिल-
विद्यानामशनिपातमहितपादपानामुन्मेषं वैदिकाचारस्य, निगलमिंद्रि-
याणां राकाभं चंद्रिकाया महीयांसं भगवंतं तं व्यासयतिसार्वभौमं
दूरादेवावलोकयन् नरपति: कन्दलित इव विस्मयेन, पल्लवित
इव भक्तया, कुसुमित इव विनयेन, प्रफुल्ल इव प्रमोदेन, फलित
इव पुण्येन, समृद्ध इव भद्रेण, सकलैरपि राजलोकैस्सह
सरभसमासनादुत्थितः त्वरयंतीमिव प्रत्यागमनं महता मर्मररवेण
कठोरशरदिंदुकौमुदीमिव सूक्ष्मतरां पटीं कटितटे दृढमाबध्नन्नुपसृत्य
धरातलपरागतिलकितललाटवक्षोभागः भूरिशः प्रणनाम । तेन भगवता
समनंतरमाशिषः प्रतिपादितामभिनवकलहंसिकाण्डकमनीयां करकमल-