2026-01-24 16:04:47 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">46
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<p lang="sa" merge-next="true">लुषितसटाच्छटै रणकण्ठीरवैरग्रपोतप्रतियोधकलिकायमानधवलचामरा-
भासुरकुंभैः मौक्तिकैश्च क्वचिदचिरनिर्मुक्तकालभुजगभयानकविकोशकर-
वालैर्विद्रुमरसारूषितानि संहृतांकणनिहतरिपुयोधगणविधीयमानमान-
भिदा व्यथासहनतया बहुधाऽवतीर्य प्रेतकरग्राहमनुनयंतीव सप्तसप्तिमण्ड-
लानि फलकानि धारयद्भिरुग्रथितकुंचिकैश्चर्मिभिश्च कचिद्विशिखनिरो-
धौषधिगुलिकोग्रस्थूलभुजादण्डैस्संवर्तककुपितरुद्रभ्रुकुटिघोरत्विंषि धनूंषि
दधानैः पश्चाद्घटितकलापकलापेन सततमायोधनविहरणाय प्रेर्यमाणैर्धा-
नुष्कैश्च कचिद्दर्शनावसरपरीक्षमाणैरुपायनपाणिभिर्निर्याणायानुविधा-
यिनो दण्डिनः प्रतिकलं राजकृत्यमनुयुंजानैरंतरीपांतरागतैरपरैर्नरपति-
भिश्च क्वचिदधिमणिवेदिनिषेदिभिरशेषनीतिपारदृश्वभिरार्यवैषैरजहद्विबुध-
जनसेवनैः करोदरबदरीफलनिखिललोकव्यवहारैः परिणतवयोभिर्धर्माधि-
कारपुरुषैश्च कचिन्नवनवपेशलालापकुशलैः प्रथमशिष्टैरिव भगवतो
भृंगरिटे: प्राप्तावयवैरिव पञ्चमरसविशेषैः परिहासकैश्च तुमुलितानि
भयंकरदौवारिकमहाहुंक्रियासमुत्सार्यमाणजनविमुक्तमार्गावकाशानि
बहूनि कक्ष्यांतराणि विलञ्चच शनैश्शनैरागच्छंतमध्यक्षेणेव कनकद्विपस्य
सीमोपलेनेव विद्रुमरोचिषः कुलदैवतेनेव कुंकुमस्य मर्मांशेनेव सिंदूरस्य
दिशि दिशि वदान्यता महता वपुरातपेन साटोपेनेव
सरस्वतीसरित्प्रवाहेण सर्वतः सभामंटपमापूरयंतं व्याकोचमातुलुंगदलसु-
षुमालघिमनिर्माणकर्मठेन रक्तपटपरिस्तोमेनेव चतुर्थाश्रमदंतावलप्रज्वाल-
पटलेनेव ज्वलनस्य मृदुलकाषायपटेन परिवीतं बालातपच्छदोपगूढमिव
प्रथमाचलशिखरं नंदनतरुपल्लवाकीर्णमुखमिव जगन्मंगलपूर्णकुंभं,
संध्यापयोदनादकुंठमिव तरुणतपनमण्डलं समंततः ह्रदस्नातोत्थितमिव
जमदग्निकुमारं चिरेण समुत्सारितेन पुनर्गतकल्पनाय शरणागतेनेव
रागेण गृहीतचरणयुगलं प्रत्यग्रबिससूत्रिकाद्राघीयसीभिर्निजागमनकुशलं
राज्ञे निवेदयितुमिव दूरतएव पुरः प्रसर्पिणीभिः श्वेतद्वीपदर्भशलाकाभि-
</p>
</page>