2026-01-24 15:17:23 by ambuda-bot
This page has not been fully proofread.
चतुर्थोल्लासः
45
भावस्स भगवान् व्यासयोगी पूर्वेद्युस्सायमागत्य हिमगिरितटमिव
जाह्नवीपूर : कमपि कोविदावासं पावयति । अत्र देवः
प्रमाणमित्यपससार। राजा तु तदाकर्णनमात्रेण समेधमानकुतूहल:
समुत्थित व मनसा ससंभ्रममवलोक्य सभामण्डलम् आत्मप्रतिबिंबमिव
तमेव तत्रभवतो मुनेरानयनाय समुचितपुरुषैस्सह पुरोधसा च
तरसा संप्रेषयामास ॥
अथ चंचलचंचलालतैर्जलवारैरिव पर्वताधिपम् ।
पुरुषैर्मणिवेत्रपाणिभिः परिवीतस्स मुनींद्रमभ्यगात् ॥
शतशः प्रणिपत्य दूरतः समयज्ञः सचिवस्तपोनिधिम् ।
अवदद्भगवन्नृपो भवत्परमानुग्रहमिच्छतीति सः ॥
तावदेष स तथेति दयालुर्भूपतेरभिसदस्सह शिष्यैः ।
आदिभिक्षुरिव नाकिनिकायादालयं सुरपतेर्निरगच्छत् ॥
तेन सचिवेन पुरस्कृत्यानीयमानं सकुतुकमालोकयतां
पौरजानपदानां दृढलग्नैरक्षिपातैरंगीकृतभिक्षुभावं सहस्राक्षं कचिदतिप्रमा-
णैर्दानवारिलहरीपरिमलपारणपरायणभ्रमरपटलांधकारितहरिदंतैरैश्चूलि-
कालग्नसुवर्णांकुशलतैः प्रवर्तिततमः प्रदीपिकालेशैरिव निशीथिनीयामैः
कर्णकुहरनिकटलंबिपाण्डुकंबुभिर्दरीमुखदरीदृश्यमानकेसरिकिशोरैरिवांज-
नशिलोच्चयैः प्रलयकालांबुदप्रतिबिंबैरिव मदावलकदंबकैश्च क्वचिदतिजव-
नैरुदग्रतरपूर्वकायैरुच्चैःश्रवोविजिगीषयेव दिवमुत्पतद्भिरितस्ततो वालह-
स्तविक्षेपया कङ्काटिकारयभररभटीमिव धिक्कुर्वाणैर्भीषणद्रुततरहेषितनि-
ध्वानेन महात्मानं गरुत्मंतमिव तर्जयद्भिः अखंडमणिखचितकनकभा-
ण्डपरिमण्डितैर्मेरुगिरिभिरिव महोत्सेकैर्वनायुजबाह्लीककांभोजप्रायैर्घो-
टकैश्च कचिन्मेचकवारवाणनियंत्रितस्कंधभागैर्विनमितमतंगजमदमषिक-