2026-01-24 16:04:15 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">44
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<p lang="sa" merge-next="true">वर्तिभिः कनककेयूरमणिगणप्रतिफलनच्छलेन शरणं भवेति
भुजचण्डिमानमिव सांत्वयद्भिः सामंतमहीपतिभिरुपास्यमानं सकलक-
लाविचक्षणानां कटकमकुटहारादिभिर्भूषणजालिकाभिः रत्ननिर्विशेषवि -
भवानां बहुविधां धर्मपदवीपरिपाटिं निश्चितवतां विपश्चितां वदनकमलेषु
सकौतुकं दत्तदृष्टिं शुभपरतंत्रमंत्रपरंपरानिराकृतसुमंत्रादिभिरद्भुताभिरू-
प्यप्रविशिशिक्षयिषया बहिर्गतैरिव निजविवेकसंतानैरनुकूलाचरणरंजितप्र-
कृतिभिरमात्यवगैरधिष्ठितनेदिष्ठमणिकुट्टिमं कालसरीसृपकठोराकारभी-
षणया कोशपुटादीषदुद्भूतया पुनरपि विरचितप्रस्थानमंगलाय
विश्वदिग्विजयाय धूमधोरण्येव प्रतापानलस्य कादंबिन्येव भुवनमंगलांकु-
रस्य वेणिकयेव वीरलक्ष्म्या : रोमरेखयेव साम्राज्यदेवतायाः
कलिंदकुमारिकयेव कीर्तिगंगायाः निर्मलया निशितधारया कर्बुरितासन -
भागं शातकुंभस्तंभावसक्ततया सौम्यताजुषा वपुषा पुनरुद्भवं
विभावयंतमिव भगवंतं नरकण्ठीरवं वरवर्णिनीभुजलताविधूयमानश्वेतचा-
मरिकाभ्यां तरंगिणीवीचीलालितहंसमालाभ्यां शरत्समयमिव विशेषदर्श-
नीयसौभाग्यसंपदमाप्रपदलंबमानधवलकञ्चुकैरुभयतः कपोलतलडोलाय-
माननीलपटवेणीगुणानि रक्तशीर्षण्यानि धारयद्भिस्सिंदुरितकुंभनिष्यंद-
मानमदजलधारैर्बहुभिरैरावतैरिव दंतिभिरालोकयालोकयेति सोसूच्यमान
नियमसेवासमागतमहाप्रधानपुरुषसंघातं राजानमपि सर्वमित्रमुदारगुणम-
प्यदीर्घसूत्रमचलमपि सततसानुकम्पं कृष्णसारमपि शार्दूलविक्रमं
महोच्छ्रयमपि नितांतगंभीरं कालमेघमिव भुवनधुरंधरं कौस्तुभमिव
त्रासदोषपरिक्षीणं सरस्वतीनयनमिव ब्रह्मदर्शनोत्सवपरं मंदानिलमिव
सुस्पर्शनमपरिमितयशसमसदृशरामणीयकमगणनीयविद्यावैशद्यमप्रमेय-
लालित्यं सिंहसंहननं नरसिंहमहीपतिं पुरोधसा सह भुवनबंधुर्नामसचिवा-
दिभिः प्रश्रयेणानमितपूर्वकायः करतलपिहिताधरो मन्दं मन्दमुपसृत्या -
धिकण्ठं सविधमेवमब्रवीत्। स्वामिन् देवेन बहुधा निशमिततादृशानु-
</p>
</page>