2026-01-24 16:04:05 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">चतुर्थोल्लासः
</ignore>
<ignore lang="sa">43
</ignore>
<p lang="sa">निर्णयानां सकाशान्नर्तकानां प्रत्यहमभ्यस्तमात्रस्य विद्याविभागस्य
परीक्षामिव दधानः भगवान्नृत्यति धूर्जटिस्संध्ययोरुभयोः । यत्र
चाभ्रंकषाणि हर्म्याणि रिरंसयाधिरोहतामुल्लंघितगणनासरणीनां
गणिकानां माणिक्यभूषणमहः पुंजैर्दिशि बहुधा समेधमानभावनैर्विभाव-
र्योऽपि वासरंति । यत्र च वसतामतियत्नसृष्टैककुबेरस्य भगवतो
वेधसोऽपि मनसि विस्मयमुद्वेलयतां नरपतीनां समीक्ष्य
संपत्तिमनियत्तामधोक्षजवक्षस्थलं केवलं कौस्तुभसहायमवबुध्यते ।
</p>
<verse lang="sa">तत्र द्विपेंद्ररथघोटघटासमृद्धा
वीथीर्विलंध्य विविधा विचलत्पताकाः ।
दूरात्समीक्ष्य स तु कस्यचिदुच्चभक्तेः
प्रत्युद्यतो बुधपतेरभजन्निकेतम् ॥
</verse>
<verse lang="sa">अथ तस्य महासने वसन् गृहिणः पूजनमन्वमन्यत ।
अभिवेदिसमंतसंस्कृतं यजमानादिव पावको हविः ॥
</verse>
<verse lang="sa">एवं तेनाभ्यर्चितो हर्षमाणः
कोटिं नीत्वा कर्म सांध्यं समस्तम् ।
ध्यायन्नेवं चेतसा व्यासयोगी
सार्धं शिष्यैस्तां त्रियामामनैषीत् ॥
</verse>
<p lang="sa" merge-next="true">अपरेद्युरुदिते निशीथिनीसमयनिर्दयनिश्शोषितनालीकिनीहर्षदोषा-
कररोषेणेव
घुसृणरसमसृणितच्छायाकांचनकुंभिकापरिरंभसंभ्रमेणेव
प्रथमगिरिशिखरविपिनविविधजपादलनि कुरुंबप्रतिबिंबेनेव हरिचंदनद्रवसं-
भावितसिद्धमुनिजनार्घांजलिसलिलांगीकरणेनेव पाटलवपुषि भगवति
भानुमालिनि नातिदूरमंबरतलमवलंबमाने निर्वर्त्य निखिलानि
प्राभातिकानि करणीयानि महतीमास्थानमंटपिकामधिवसंतमनतिसमीप-
</p>
</page>