This page has not been fully proofread.

<page>
<ignore lang="sa">
42
 
</ignore>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
</ignore>
<verse lang="sa">
आश्वास्य तौ वाग्भिरयं रुदंतौ व्यासो यतिर्विस्मयनीयकर्मा ।

अभ्युक्ष्य कामण्डुलुकीभिरद्भिराजीवयत्तं पुनरेव बालम् ॥
 
</verse>
<verse lang="sa">
सुवा प्रबुद्धमिव तं सुतमुत्थितं तौ

निर्विण्णविस्मयपयोनिधिमग्नचित्तौ ।

पुष्यत्प्रमोदपुलकांकुरमांसलेन
 

बाहायुगेन पितरौ परिषस्वजाते ॥
 
</verse>
<verse lang="sa">
सुतेन साकं सुकुमारभासा कृतप्रणामौ कृतिनं यतींद्रम् ।

जायापती तावदरण्यभागादानाययामासतुरात्मगेहम् ॥
 
</verse>
<p lang="sa">
तत्राहानि द्वित्राणि सत्रा शिष्यैस्समाराधितो भगवान् सुमतिं

तं कृपयाऽनुगृह्य तत्रस्थां महाचलपुरीं शनैश्शनैरुपासीदत् ।

त्रिविक्रमोन्नतिमदप्रक्रमभुवा, पटीयसा प्राकारवलयेन परिचुंब्यमानहरि-

मुखा लोकालोकाचलेन वलयिता धरणिरपरेव या समालक्ष्यते ।
 
</p>
<verse lang="sa">
गेहे गेहे यत्र धृष्यंति रात्रौ मुक्ताबद्धेष्वंगणक्ष्मातलेषु ।

प्रालेयांशोबिंबितं चिह्नभूतं घ्रायं प्रायं कृष्णसारं हरिण्यः ॥
 
</verse>
<verse lang="sa">
मध्येदिनं गोपुरभृंगहेमकुंभैरभेदं गतमब्जबंधुम् ।
 

प्रजानते केवलमूष्मभावैः प्रार्श्वस्थिता यत्र च वालखिल्याः ॥
 
</verse>
<p lang="sa" merge-next="true">
यत्र कायकांतिविशेषाधिवासोत्सवसुखातिशयानुबुभूषयाऽवतीर्णा-

नामिव विद्याधरीणां मधुरयोः कण्ठनालकरतलविपञ्चिकानिनदयोः

श्रोतारः कुशला अपि भेदं निर्णेतुं न पारयंते । यत्र तपनीयमयीषु

सौधधोरणीषु विशङ्कटमणिविटङ्ककुलायनिलयिनः शुकशाबका:

परिणतदाडिमलोभेन कुतूहलमण्डलितपक्षतयः चटुलचटुलेन लेलिहंति

पद्मरागशकलानि। यत्र च बिरुदपदकटकायितभरतमुनिफणितिमर्म-
 
</p>
</page>