This page has not been fully proofread.

<page>
<ignore lang="sa">
चतुर्थोल्लासः
 
</ignore>
<p lang="sa">
अन्यस्य तस्य सरसो महति प्रतीरे
 

विन्यस्य तं तनुभवं विधिना परासुम् ।

तौ दंपती श्रवणयोः कटुभिर्विलापैः
 

कूलंकषं रुरुदतुः कुरराविवैतौ ॥
 
</p>
<ignore lang="sa">
41
 
</ignore>
<p lang="sa">
दृष्ट्वा तौ भगवानपि व्यासयति: किंतु कृपालुतया मुहुर्हसमानो

निरंतरनिष्यंदमानबाष्पयवनिकाव्याहन्यमानविलोचनपदमासाद्य तमग्रज-

न्मानमप्राक्षीत् । अथ गृहमेधिन् कुत्रस्थो भवान् ? कथंकारमस्मिन्

कण्टकिते काननप्रांते ? को वा हेतुरस्य कुमारस्य परासुताया: ?
 
.
 
</p>
<verse lang="sa">
इति पृष्टो द्विजातींद्रः तेन तेजोमयेन सः ।
 

प्रत्यभाषत शोकांधो बाष्पगद्गदया गिरा ॥
 
</verse>
<p lang="sa">
भगवन् ! किमिति ब्रवीमि जननांतरमेदुरितानां परिपाकमिमं

दुरितानाम् । अत्र दिशि दक्षिणस्यां वर्तते पञ्चषघटिकाभिरासाद्यः

कोविदग्रामः । तत्र वास्तव्यकुटुंबिनोरावयो: कुलतंतुरेष कुमारः ।

अयं तु प्रभात एव समिदाहरणाय सवयोभिस्संधुक्षितकुतूहल:

कण्टकतरुमण्डलगहनं गहनमेतदागत्य स्वैरं मृगराजवद्विचचार ।

चरंतमेनं विनिहंतुकामेन कृतांतेन नियुक्त इव कश्चन

जरद्वटविटपिमूलकोटरस्थो ददंश महान् दंदशूकः । दष्टम

विषविप्लुष्टवपुषं नष्टचेतनं दृष्ट्वा तमेनमिष्टैः कतिपयैस्संयंत्रितचेतास्तं

वटमूलप्रदेशमासाद्य प्रलयाशनिपातितमिव पादपं परेतमेनमपश्यम् ।

दृष्टवांश्चामुं भुजांतरमारोप्य समुन्नीतजनघोषतयावलंबितधैर्यलेशः

प्रदेशमिमं समुपागमम्। समुचिते मयि वर्तमाने किमेनं मम

तातं विधिरीदृशीं दशामनैषीत् । इत्यादि विलप्य पुनरपि गृहिण्या

सममाचक्रंद।
 
</p>
</page>