2026-01-24 15:58:51 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">40
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<p lang="sa">प्रतिबोधनकर्मठी भवति । तत्र सर्वेषामपि धर्माणां राजा सेतुरिति
न्यायेन भवता सर्वदा तदा तदास्थानीस्थेयुषा भवितव्यम् । पुरा
किल योगिनो निस्संगा अपि महांतो दत्तात्रेयादयः जगदुपकरणाय
राजन्यसभालंकारा बभूवुः ।
</p>
<verse lang="sa">इत्युक्तवंतमथ तं स तथेति वाचा
तुष्टं विधाय नरसिंहनवीनगुप्ताम् ।
शिष्यैस्समं कतिपयैरुडुभिश्शशीव
संप्रस्थितः प्रति महाचलराजधानीम् ॥
</verse>
<verse lang="sa">मार्गं विलंघितवतः क्रमशो महांतं
मध्येदिनं वनतरुप्रकटोपगूढम् ।
अग्रेसरस्य यतिनाममलांबुगर्भ-
मग्रेसरो नयनयोरतिथीबभूव ॥
</verse>
<p lang="sa">स्नात्वा स तत्र सलिलैश्शिशिरीभवद्भि-
र्भानोरगोचरतया परितः कराणाम् ।
देवार्चनामकृत शिष्यजनाहृताभिः
कल्हारतामरसकैरवमंजरीभिः ॥
</p>
<verse lang="sa">तावदस्य सरसस्समीपतो दक्षिणाद्विपिनवृक्षमण्डलात् ।
रोदसी कबलयन्निवोदगात्कोऽपि कोलनिकरो भयानकः ॥
</verse>
<p lang="sa">तमाकर्ण्य तस्य चेतः किमिदमिति चिंतां यावदाललंबे तावदेव
कौचन ब्रह्मदंपती दावपावकालीढबालसहकारस्येव विवर्णभाजो
विस्रंसितावयवसंधिबंधस्य बाहूपपीठमाश्लिष्य धार्यमाणस्य द्वादशवर्षी
यस्य कुमारस्य वदनं वीक्ष्यं वीक्ष्य करुणं विलपंतौ
शनैरशनैस्सविधभुवमासेदतुः ।
</p>
</page>