This page has not been fully proofread.

चतुर्थोल्लासः
 
39
 
इत्थंकारं प्रकाशितादरप्रधिष्णुस्तस्य यशस्तेजोगौरवं संपादयिष्यन्न
मोहजुषां विदुषां गवेषणीयमशेषेण तस्मात्त्रयीशिखरतत्त्वरहस्यमग्रहीत् ।
स च प्रशस्ततया देशस्य पवित्रतया महातीर्थानां भूयिष्ठतया
महत्संघस्य वत्सलतया विद्यागुरोः प्रशांततया मनसश्च समग्रसन्निधान
वैभवस्य भगवतो नृसिंहस्य कांक्षमाणः करुणां भूयसीं शरत्समय
इव प्रसन्नसलिलाशयः समर इवारब्धवीरासनो रथ इव विधृताक्षमालो,
वनोद्देश इवं प्रविकस्वरजपो धिषण इव नियमितमरुद्गणः तरुरिव
दरदरीदृश्यमाननेत्रभागः निवृष्टबलाहक इवाचंचलस्तपस्तपन् महनीयं
तत्रैव चिरमवसत् ॥
 
तं दिव्यपूरुषममुं प्रविबुध्यमान-
 
स्तेजोभरेण तपसा च धिया महिना ।
विद्यागुरुस्समयवित्प्रमुखः कदाचित्प्रोवाच
 
वाचमुचितां भुवनोत्सवाय ॥
 
अये जगति विजयते केवलं शारदायामेव हृद्या निखिलविद्या ।
भार्गव एव प्रतिभटप्रतिभया प्रतिभा, धिषण एवाप्रतिहतमेदुरमदा
वदावदता। विकर्तन एव विस्मापिततेजः प्रपञ्चः सुधाकर एव
सकलजनमनः प्रीणनं नैपुणम् । विभावसावेव विश्वासितलोकबुद्धिशुद्धिः
मेदिनीधराधिपभृंग एव विशेषधौरंधर्यम् । मंदारमहीरुह एवानन्यसा
मान्या वदान्यता । भगवति वासुदेव एव विचित्राणि चरित्राणि ।
 
अभूतपूर्वाभ्युदये त्रिलोकीपटीकुटी बोभवदुच्चकीर्ते ।
 
समस्तमेतत्तु समेधमानं त्वय्येकवास्तव्यतया समिंधे ॥
 
अतो दिनविरामेणेव खलजनवचोव्यामोहचूर्णेन सरोजिन्या
इव चिरेणानिद्राणायाः वैदिकाचारमंद्रायाः दिनकर इव भवान्