This page has not been fully proofread.

38
 
श्रीव्यासयोगिचरितम्
 
जातुचित्तेजोविशेषमसहिष्णुना केनापि ब्रह्मबंधुना धार्तराष्ट्रेणेव
दुरात्मना भीमसेनाय गरलं कबलगोपितं प्रायुज्यत । अरुंतुदेन
तेन तस्य तनुश्शारदीव शैवलिनी बाहुलीव शशिमंडली शैशिरीव
सहकारलता दिने दिने सुषुमैकशेषं तनिमानमभजतः। तावत्स
भक्तवत्सलेन करुणावशंवदेन भगवता गरुडध्वजेन स्वप्ननिर्दिष्टायास्सा
क्षादिव धन्वंतरि कुलदेवतायाः कस्याश्चिन्महौषधिमूलिकायास्सद्यस्तने
नेव योगेन प्रत्यासन्नरूपया मूर्त्या ग्राहमुक्त इव गजयूथनाथः
पूर्वादप्यधिकमशोभत ।
 
यातेषु भूरिषु दिनेषु यतिप्रवेक-
स्तेजःप्रणम्य वरदं द्विपशैलचिह्नम् ।
देशात् प्रदर्शिति विचित्रवचः प्रभाव-
 
स्तस्मात्स मुल्वनगरीं शनकैरयासीत् ॥
 
तत्र सततविहिताधिवासं सनकमिव महर्षिभिर्ब्रह्मवादिभिरंतेवासि
भिरुपास्यमानं प्रतिविबुधविटपिपाटनक्रीडनकठोरकुठारधारायमाणवा-
ग्गुभं हरिदंतरविसर्पियश : काशवनप्रवर्तितशाश्वतशरत्समयावतारं निक्षेप-
भाजनमिव मध्वमुनिरहस्यस्य साक्षात्कारमिव धैर्यस्य बिरुदपद्यमिव
सद्गुणग्रामस्यालानमिव गांभीर्यमदावलस्य महात्मानं सकृदाकर्णितनि-
जागमनप्रसंगपुलकितमानसं लक्ष्मीनारायणयोगिनमासाद्य भक्तया
प्राणंसीत् ।
 
एनं स दृष्ट्वा यतिसार्वभौमं तेजोभरैर्दीपितदिग्विभागम् ।
स्वाहां चिराद्गाढतरस्वकांतवियोगबाधाविषयं शशंके ॥
 
अस्मै ततो व्यासमुनीश्वराय जाज्वल्यमानाय तपः प्रभावैः ।
शिष्योपनीतैस्सकुशासनाद्यैर्यथोचितं सत्कृतिमाततान ॥