This page has not been fully proofread.

<page>
<ignore lang="sa">
चतुर्थोल्लासः

</ignore>

माधरीकृतसुधैर्बुधैः प्रतिभटघटाडंबरजंबालरविभिः

कविभिः
प्रकटितत्रिदशभुवनप्रत्यादेशं देशमगाहिष्ट ।

<verse lang="sa">
सुरकरनलिनानां धोरणी चंद्रभासां

कलशजलधिकन्याकामपूजाफलश्रीः ।

मरकतमणिसानौ वारणाधीश्वराद्रेः

अपि च-

प्रविकसति विधातुः प्राक्तनी पुण्यमुद्रा ॥

</verse>

अपि च--

साम्राज्यं पवनाशिनामधितुलाकोटिस्पुटं कल्पयन्

कुर्वन्मूर्ध्नि कुमुद्वतीपरिषदामानंदधोरंकुरम् ।

वामेनादिधनुर्धरस्य मधुरामाज्ञां समाराधयन्

37

कविभिः

भूमौ कोऽपि रसालमूलरसिकः पुष्णाति मोदं दृशोः ॥

तत्र पर्यटंतं समीक्ष्य तं वैज्ञानिकं सुलभाय यशसे स्वयमेवाहूय

पालयतां पुंखानुपुंखतदीयवचोविस्मापितानामपि विपश्चितां चेतांसि

प्रायेण मस्करी किं सुरगुरुरपि वा तादृश इत्यकथयन् ।

<verse lang="sa">
प्रापाश्रमादेष तुरीयमाद्यादतीव तद्धि स्वयमप्युदग्रान् ।

गुणानुपेत्य श्रवणाभिधानान् मध्यस्थितानुत्तरमाललंबे ॥

</verse>
<verse lang="sa">
मान्यस्य तस्य महतो महतां सकाशे

षड्दर्शनान्यपि धराधरसन्निभानि ।

विद्याबुभुक्षितवतो धिषणामहिम्नो

प्राणादिमाहुतिदशां प्रथमं प्रजग्मुः ॥

</verse>

इत्थमचिरादेवाधिगतसमस्तविद्याय सततं विवादयिषया स्फुरता

दशनवाससा तर्जत इव शारदावाचारभटमपि तस्मै महायोगिने

</page>