This page has not been fully proofread.

<page>
<ignore lang="sa">
36
 
</ignore>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
</ignore>
<p lang="sa">
भुवनमंगलाय च बहुगुणपण्यवीथ्यां तिथ्यां क्षेमंकरभासुरे वासरे

अपाकरणावतारे तारे, स्थास्नुतालग्ने लग्ने प्रभाते प्रभाकर व

पावकाज्योतिष्कलापं तस्मात्तपसा जाज्वल्यमानात् द्रुहिणकेतनपट वि

परमहंसलक्षणोदारं यथाविधि चतुर्थाश्रमं पर्यग्रहीत् । तेन विधिना

शाणोल्लेखिने रत्नायेव सद्य एव ऊर्जस्वलाय प्रकटशंखचक्रलांछनाय

तस्मै तापसाय माहेयीचर्वितै: पुनरुद्धृत्य शोधितै: नीवाररूपैश्विरेणादधा-

नाय शरीरयात्रामावृत्तिभिरगणेयाभिः फलोन्मुखेन महीयसा केनापि

मंत्रेण सह कौस्तुभेन कमलामिव नारायणाय पारावारो महतीं

व्यासाभिधां प्रादात् ॥
 
</p>
<trailer lang="sa">
॥ इति श्रीसोमनाथकविविरचिते तृतीयोल्लासः ॥
 
</trailer>
<heading lang="sa">
॥ चतुर्थोल्लासः ॥
 
</heading>
<verse lang="sa">
अथ तस्य गुरूपकंठभाजो
 

विशदा व्यासयतीश्वरस्य कीर्तिः ।

तरसाऽभिययौ दिगंतभूमिं

कलशांभोनिधिनिर्जिगीषयेव ॥
 
</verse>
<p lang="sa" merge-next="true">
क्रमेण स निसर्गगभीरचेतास्तुंगतरशृंगालिंगितपयोधरान् धराधरान-

नोकहनिवहविकसितकुसुममधुधारासंपातशमितदावदहनानि वनानि

मदकलकलहंससंसदा लोलितनलिनगालितपरिमलपरिमिलेन सललित-

व्यलीकमेदस्विनीस्स्रोतस्विनीश्चातिशयनृत्तकलामत्तकाशिनीमंजीर-

झंझलितमुखरितसौधशिखराणि नगराणि आश्चर्यतपश्चर्यादीप्रमणिपेटि

कामठिकाश्च विलंघ्य निरंतरनिषेव्यमाणानेकदशशतमुखफणितिमधुरि-
 
</p>
</page>