2026-01-24 15:56:08 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">35
तृतीयोल्लासः
</ignore>
<p lang="sa">लक्षणमप्यसकृदालोक्य तमेनं जगति पाषंडबुर्बुरषण्डकण्टकितानामुन्मेष -
णाय वैदिकाचारपदवीनामाश्रमं तुरीयं संक्रमयितुममंस्त । तावदसौ
कुमारो यति राजो निर्मलनिजनैपुणीविशेषमणिमुकुरप्रतिफलितं
तथाविधं तस्य भावं निधाय शैशवचापलेन चिंतासंतानसहायस्ततो
मंदमंदमविदित एव मध्यंदिने पित्रोः सकाशं प्रतिप्रस्थितः
</p>
<verse lang="sa">मध्येमार्गं वनशिखिसमानातपैः क्लांतकांतिः
पाय पायं सरसि सरसि प्रौढयोदन्ययांभः ।
शाखाजातैः कबलितदिशः कस्यचिन्मूलमागात्
न्यग्रोधद्रोस्सततु सिकतिलं श्रांतिनिर्वापणाय ॥
तु
</verse>
<verse lang="sa">तं शनैः प्रत्यभिज्ञायै तत्र निद्रा तनीयसी ।
आदर्शमिव नैर्मल्यसिद्धये भूतिराविशत् ॥
</verse>
<p lang="sa">तत्क्षणे वटपत्रपुटादिव गगनपथादवतीर्णेन सुपर्णोपवाह्याधिरूढेन
कोटीरकोटिघटितांजलिनिलिंपमुनिनिवहस्तूयमानमहिना, पार्श्वप्रवर्त्यमा -
ननानागीतिश्लाघाकंपमानमकुटाग्रेण भगवता लक्ष्मीसहायेन बोधितनि-
जावतारकरणीयः निद्रासंगमविहारस्वेदैरिव हर्षाश्रुवारिशीकरैः कोरकित-
विलोचनो विस्मयपुलकितचेतास्तरसा प्राबुध्यत ।
</p>
<verse lang="sa">उत्थाय शीघ्रमुररीकृतभिक्षुभावः
संमृज्य नेत्रयुगल सलिलेन कुंड्याः ।
अभ्यागमत्सविनयेन गुरोस्सकाशं
कार्यांतरादिव विनिर्गत एव भूयः ॥
</verse>
<p lang="sa">तदनु गणरात्रमतिवाह्य गुरोः प्रत्यहं प्रसंगादिना श्रमतारतम्यं
विवृण्वतः सानुनयं वाचा शिष्यभावं याचमानस्य मनोरथपूरणाय
</p>
</page>
<ignore lang="sa">35
तृतीयोल्लासः
<p lang="sa">लक्षणमप्यसकृदालोक्य तमेनं जगति पाषंडबुर्बुरषण्डकण्टकितानामुन्मेष -
णाय वैदिकाचारपदवीनामाश्रमं तुरीयं संक्रमयितुममंस्त । तावदसौ
कुमारो यति राजो निर्मलनिजनैपुणीविशेषमणिमुकुरप्रतिफलितं
तथाविधं तस्य भावं निधाय शैशवचापलेन चिंतासंतानसहायस्ततो
मंदमंदमविदित एव मध्यंदिने पित्रोः सकाशं प्रतिप्रस्थितः
<verse lang="sa">मध्येमार्गं वनशिखिसमानातपैः क्लांतकांतिः
पाय पायं सरसि सरसि प्रौढयोदन्ययांभः ।
शाखाजातैः कबलितदिशः कस्यचिन्मूलमागात्
न्यग्रोधद्रोस्स