2026-01-24 15:55:33 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">34
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<p lang="sa">श्शारदामहेंद्रमणिनूपुरखंडयो: प्रफुल्लशाखयोरिव नासावंशस्य नीलविता
नशाटिकयोरिव विलोचनस्य मधुकरवीथिकयोरिव वदनराजीवस्य
कुटिलकोटिकयोर्भूलतयोः प्रसर्पणजुषा रोचिषा दिशि दिशि
कुसुमशरकोदंडकोशनिवेशानिव प्रकाशयंतं तप्तजांबूनदसगर्भेण
गोपीचंदनरसेन विहितैः तेज: प्रभापराजितानां प्रद्योतनानामंशैरिव
प्रेषितैः द्वादशभिरूर्ध्वपुंड्रैरुपास्यमानसमुचितावयवं, वालेनेव ब्रह्मवर्चस-
चमरस्य कंपप्रायेण शिखंडकेन शेखरितं कल्पप्रवालकौशेयकपरिवीतं
त्रिलोचनविजिगीषया तपस्तपंतमिव कंदर्पम् इयद्भावमिव रामणीयकस्य
वास्तुमिव महालक्षणानामग्रभूमिमिव नयनसुकृतपरिणतेरर्थमिवाश्चर्यश-
ब्दस्य प्रमाणमिव गांभीर्यस्य दृष्टांतमिव आदिमा श्रमस्य निर्णयमिव
. ब्राह्मण्यस्यात्मानमिव विनयस्य शनैरशनैरुपसर्पतमेनं वर्णिनं निर्वर्ण्य
विस्मितेन कबलितहृदयश्चिरादात्मानं सिद्धसंकल्पममन्यत ।
</p>
<verse lang="sa">उपसृत्य ततस्सुतेन साकं शतकृत्वः प्रणिपत्य संनिषण्णम् ।
गुरुरेनमवेक्ष्य कौतुकेन प्रकटार्थं प्रमितामवोचदुक्तिम् ॥
</verse>
<p lang="sa">अयि भद्र पुरा बभूवुस्त्रैशंकवादयो महापुरुषाः सत्यसंधाः
अपि तेषु महानुभावभाक्षु स्वयशः पूरवलक्षसर्वदिक्षु । स्वयमेव
वितीर्णसंविदब्धिं कमपि त्वामिव नावलोकयामः ॥
</p>
<p lang="sa" merge-next="true">इत्यादिवचसाऽनुगृहीतः सचेतास्तत्करुणापूरमयमात्मजं काल-
मेघो महांतं सरित्प्रवाहमिव सागरेण गुरुणा तेन संयोज्य
त्रिचतुरवासरानंतरं स्वधाम प्रतिययौ । ततः परं पितृजननिर्विशेषमुपला-
लयन् स मुनिरस्य वटोराबाल्यप्रायामकुतोरोधां मेधाम् अनवद्यां
विद्यामव्याहतां वावदूकताम् अपामरमाचारमनामयं विनयमविकारमाका-
रमवार्यं धैर्यमतिप्रमाणं गंभीरिमाणं महाराजपरिपूजनसूचनविचक्षणं
</p>
</page>