This page has not been fully proofread.

<page>
<ignore lang="sa">
तृतीयोल्लासः
 
</ignore>
<ignore lang="sa">
33
 
</ignore>
<p lang="sa">
सरसः सदसद्विकल्पगोचरेण श्लक्ष्णतमेन गुल्फयुगलेन सकलमहीपाल -

तीक्ष्यतां प्रथयंतं, शाणोल्लिखितेनेव वृत्तानतमध्यभागेन नटनस्तंभेनेव

मंदगतिलासिकायाः जंघाद्वितयेन पुष्टस्मरतूणीरस्य पूर्णावतारमिव

पुंखयंतं, प्रचंडतरचारुतामंडितोरुकांडेनाखंडलवेतंडशुंडादंडस्य पुनर्जनन-

चर्चामिवोद्दामयतं पिशंगस्य संध्यापयोदशंकया समालिंगितस्येव

सौदामनीदाम्नो, नाभीकुहरविनिर्गतस्येव गर्भस्थितहिरण्यदीधितिवल-

यस्य, जन्मान्तरविलग्नस्येव त्रिपावकीसौहार्दगुणस्य, त्रिगुणितस्य

मौंजीकलापस्य भासा परितः समुल्लसंत्या भगवंतं पीतांबरमिव

विडंबयंतं, सिंदूरधूसरितवपुषं कनकश्रृंखलासंदानितोदरमिव स्तंबेरम-

शाबकं, मौक्तिकगभस्तिरचितयेव मनोरमया साक्षात्समासक्तयेव

धातृकुटुंबिनीनिर्मलमनःप्रवृत्या मृणालिकापरिवेष्टितमिव कोकयुवानं,

लाजावल्या वेल्लितमिव जातवेदसं, रजनीरमणकलयांचितमिव

दर्शमार्तंडं, त्रिपथगया परिवेष्टितमिव हाटकगिरिकूटं, यज्ञसूत्रिकया

परिपूतवक्षोभागं, कठोरशशिलांछनतापिंछपिंछवांछनीयच्छविना सुकुमा

रलोमसंतानेन कलिंदकन्यातरंगेणेव सरस्वतीप्रवाहं, द्विरेफपोतचक्रेणेव

सायंतनौषधिशाखिनं कृष्णाजिनपटेन शबलीकृतकलेबरम्, अकुटिलात्मं-

प्रमाणपरिणाहाग्रावलंबिधवलकौपीनं, ब्रह्मचर्यविजयध्वजमिवाषाढं
 

पाणिना सव्येन धारयंतं, परिणाममेचकाकारेण प्रथमाश्रमनिष्ठाया

इव विभ्रमकुवलयकंदुकेन सरसीरुहशंकयाऽनुसरतेव कादंबपोतेन

नारिकेलकमंडलुनाध्यासितदक्षिणपाणिकमलं, स्वबिरुददरशृंखलसूत्र-

काभिरिव मेखलाभिस्तिसृभिर्बंधुरेण स्वयमेव घुमघुमारवप्रपंचनापठनाप-

रतंत्रनिध्वानोद्धतस्य पांचजन्यस्य मदसंचयमिव लुपता, कंठकंबुना

परिशोभमानं, यदृच्छया विवृताधरपुटनिस्सृतै रसनांचलसंचरणचुंचुवि-

द्यापदनखांशुभिरिव रदनकिरणैः क्षपाकरकलासहस्रमिव कंदलयंतं,

कालिंदीतरंगमदखंडनिकयोर्निरंकुशनटनविलासचटुलचरणस्फुटितयो-
 
</p>
</page>