This page has not been fully proofread.

<page>
<ignore lang="sa">
32
 
</ignore>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
</ignore>
<verse lang="sa">
दृष्ट्वा सुतं चिरतपःपरिणाहलब्धं विद्याभिरूप्यविनयादिगुणैककोशम् ।

स्मृत्वा मुनेर्वचनमप्यविलंघनीयं डोलायमानहृदया जननी बभूव ॥
 
</verse>
<p lang="sa">
अन्येद्युरुदिते युगप्रमाणं भगवति भास्वत्यलंघ्यतया व्यासदेवशास-

नस्य झटिति निर्वहणीयतया प्रस्तुतकार्यस्य विनयपर्यायतया तनयस्य

जाल्मतरतया चात्मनो जायया सह कृतनिश्चयस्तं पुरोधाय गुरुशिष्यं

विदितवृत्तांतेन साकं कुमारयतिराजेन स मन्दं मन्दं तत्रभवतो

महामुनेरभ्याशमगात् । तत्र प्रथमं स शिष्यः प्रणिपत्य गुरवे

प्रांजलिर्न्यवेदयत्। स्वामिन्! भगवतः करुणापरिणामेन कुमारेण

सह काश्यपवंश्यस्समागत्य द्वारमध्यास्त इति । सोऽब्रवीद्वदंतं त्वरितं

प्रवेशयेति । अथ तेन समानीयमानं शरद्विकचकाशप्रकाशया

ललितनिर्विशेषया सुकुमारोष्णीषिकया द्राघीयस्या बंधुरितमस्तकेन,

कुसुमितशेखरेणेव कुंदमही रुहेण, विमलविमलया दुकूलसंव्यानशाटि-

कया दृक्पथलेखयेव, गगनाभोगेन सनाथीकृते, विधृताप्रपदीनविशदकं-

चुकेन कुसुंभरागनिर्णिक्तया मर्मरमुचा, प्रच्छदपटिकया विहगरुतमुख-

रया गैरिकततिभुवेव तुषारगिरिशिखरेण परिकलितमध्येन प्रांशुना

महापुरुषलक्षणपक्ष्मलितेन जनकेन परिष्कृतपुर : प्रदेशम्, अच्छाच्छानामं-

गुलिकावलिमालतीमुकुलावतंसायमानानां पदनखरमणीनां प्रसृमरमयूख-

रेखाव्याजेनांगुष्ठमात्रनिष्ठ्यूतैकसुरसरिद्वर्णिनो वामनस्य निकाममतिशि-

शयिषया बह्वीरवतारयंतमिव भागीरथीश्विरवियुक्ततया समागत्य गाढं

प्रणमतेव प्राक्तनजन्मगुणेन, स्पष्टीभवतेव सकलतीर्थानुरागेण,

समुदंचतेव लेखाकमलमरीचिजालेन, कुलोपाध्यायेनेव विद्रुमलता किस-

लयानां, सवयसेव यावकरसस्य, कर्णेजपेनेव कुरविंदसौभाग्यस्य,

चरणतलशोणिम्ना पद्मरागमणिमयीमिव पदवीं वितन्वानं तिलकेनेवांघ्रि-

सुषुमायास्तुलाफलकेनेव कलभगतिसौभाग्यस्य, दरबुद्बुदेनेव लावण्य-
 
</p>
</page>