This page has not been fully proofread.

तृतीयोल्लासः
 
31
 
भूरिणा संप्रणामविधिना चिरोत्कंठितमनसा संमोदबाष्पधारावदनौ
दृढतराश्लेषाभिलाषपुरःप्रसारितभुजौ मातापितरौ प्रकटोच्चारितशर्मणा
सप्रश्रयपदस्पर्शनेन, निकाममहोत्सवगुणाकृष्टानिव सरभससमागतान्
बंधुजनांश्च गाढया परिरंभणक्रियया, त्वरितगतिसंभ्रमादतिप्रमाणनिश्वा-
सान् सदयं सत्सुहृदश्च वत्स सविधमेहीति मधुरिमपुषा लालनालापेन,
चिरमदृष्टतया तरलतैरैर्विलोकनैरवलोकयतो माणवकांश्च यथाक्रमं
संभाव्य, ततस्तैरादरेण पृच्छ्यमाणो निजप्रवासोदतं निरवशेषमकथ-
यत् । ततः परमपि तत्रैव स कूलंकषेण विद्याविशेषाभिलाषेण
बहुश्रुत्या परिणतरसिकभावभाजां लालाजलायितव्याकरणफणितीनां
सकाशाद्विपश्चिताम् अपाठीत्सालंकाराणि सनाटकानि काव्यानि ।
तत्रांतरे श्रुतनिखिलवृत्तांतेन तत्रभवता गुरुणा यथार्थनाम्ना
ब्रह्मण्ययोगिना स्वप्रतिबिंब व प्रेषितः कश्चिदग्रणीरंतेवासिनां प्रथमोपाय
इव भावितावतारस्य, व्यवसाय इव कार्यसिद्धेः, प्रभाव इव
घटनाया, यशोराशिरिव लालित्यस्य, शाबक इव वैदग्धस्य, महापुरुषो
दशरथमिव गाधेयो, बल्लणसुमतिमाससाद । सरभसविहितसपर्याविधये-
तादृशमस्मै गुरुवचनमवोचत् । अपि भवान्कुटुंबिन्या सह मंगलेन
वर्धते । ननु कल्याणी विशेषेण जननीवात्सल्यभाजनं कुमारिका ।
भद्रेण कच्चित्कुलधुरंधरस्समेधते ज्यायान् । कुशली किमितर: कुमार
इति । ततश्च राजत्परिणाहधवलतनुतरोष्णीषांचलादामुच्य साक्षादाहृतच-
क्रमिव गुरोः " पत्रं प्रादात् । असावपि तत्सविनयमंजलिना गृहीत्वा
नयनस्पर्शपूर्वं शिरसि निधाय स्वयमेव वाचयित्वा मोहेन स्तब्धमनाः
लिखित इवासीत्। क्षणादेव पुनरवलंबितधैर्यलेशो वर्धिष्णुना सह
सागरेणेव मेधाविना सद्य एव संधानिर्वहणजागरूकेण भवितव्यमित्येता
वंतं गुरुलेखाराद्धांतं रहसि गृहिण्यै न्यवेदयत् ॥