This page has not been fully proofread.

<page>
<ignore lang="sa">
30
 
</ignore>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
</ignore>
<verse lang="sa">
विनिर्मितस्तेन विशेषरागात्सरोजुषः पुष्करभूपुरंध्याः ।

अलाबुकूटत्रयहारिशोभां वीणेति शंकां विदधे णकारः ॥
 
</verse>
<verse lang="sa">
प्रच्युतानि वदनात्पटुलालावापृषंत्युरसि तस्य विरेजुः ।

बिंबितानि पुनरच्छतनुत्वादक्षराणि मनसेव धृतानि ॥
 
</verse>
<p lang="sa" merge-next="true">
एवं कतिपयैर्वासरैर्यथातथं गृहीताशेषलिपिविशेषेण, नगरमिव

तोरणेन, यश इव वितरणेन, पुण्यमिव सत्कर्मणा, प्रमोदमिव

महोत्सवेन, सौधमिव सोपानेन, विजयमिव वीर्येण, समयोचितमखिल-

मपि वर्णसमुदायमलंचकार । सप्तमे वयसि गुरुणा विधिवदुपनीतः

तपसा दुश्वरेण लब्धस्येव निरपायनिलयः ब्रह्मवर्चसस्य निर्गत्य

निकेतनान्नियमद्वितीय एव शुक इव नीडानि गुरुकुलान्यध्यवात्सीत् ।

प्रथमं कुलगृहमिति स्वातंत्र्येण रुचिरपदक्रमैः प्रविश्य तस्मिन्

सुखविलासजुषि ततो महेर्ष्ययापातिभिरिव दायप्राप्त्यै कलहायमानैरितरे-

तरैरुपनिषत्कुटुंबिनीभिस्सममचिरादयमाक्रम्यत । केवलं स विधिरिति

चिरमनूचानानसेवत गुरून्, नाभ्यासापेक्षया । लोकाचार इति व्या

तेन मुहुरधीतावृत्तिः, न प्रमादभिया । पुरातनत्वगौरवादवततारशिक्षादि

ष्वस्य शेमुषी, न लक्षणाभिज्ञतया । मधुरतरस्वरोच्चारणशुश्रूषया

जनास्तत्र तमप्राक्षुः न परीक्षितया । एवमुषित्वा हायनानि चत्वारि

गुरुकुलेषु समेधमाननिरतिशयमेधाप्राशस्त्यकबलितदिगंतरालः

यतिराजो भक्त्या विनयेन सपर्यया दक्षिणाभिश्व समावर्जितमानसैर्गु-

रुभिः कुटुंबिनीसहायैः प्रास्थानिकप्रणतिविधानाद्विरहासहिष्णुतया

निर्गलंतीभिर्बाष्पसलिलधाराभिः स्त्रपितशिखंडकः, कथं कथंचिदासादि-

तानुमतिः कृच्छ्रेण मनस्स्वकीयमप्याकृष्य केनापि पश्चादाकृष्यमाणाभ्या-

मिव चरणाभ्यां मातापितृचरणकिसलयसंदर्शनजनितकुतूहलेन

शनैश्शनैरभजत निजनिवासम् । तत्र प्रथममंगैरष्टभिरालीढवसुधातलेन
 

 
</p>
</page>