2026-01-24 15:53:11 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">तृतीयोल्लासः
</ignore>
<verse lang="sa">चरं मिंदु नभसि क्षपासु प्रगृह्य देहीत्यवदत्सवित्रीम् ।
स भूयसा कीर्तिसुधाकराणां तं मातृकीकृत्य सिसृक्षयेव ॥
</verse>
<ignore lang="sa">29
</ignore>
<p lang="sa">इत्थमतिवाहितद्विहायनो गुरुणा विधिवदनुष्ठितचूडाविधानो
यतिराजः पंचमे वयसि चलाचलशिखंडकैर्बांधवकुमारैस्सवयोभिरनवद्या-
मतिहृद्यतमां लिपिविद्यां परिचितुमारभत । तत्र
</p>
<verse lang="sa">प्रमोदभारात्परितस्समुत्थितै
रजोभिरंगै रमणाभिधाक्षरम् ।
वकारमादौ लिखितस्य-
तश्शिशोस्समालिलिंगेव तनुं वसुंधरा ॥
</verse>
<verse lang="sa">ॐकाररूपं लिखितं च तेन भूमौ स्वकीयागमसूचनायै ।
विरिंचिपत्त्या प्रहितेन चर्चां चकार तालच्छदवेष्टनेन ॥
</verse>
<verse lang="sa">श्रीमंदष्टाक्षरीनाम्नो मंत्रस्य स महीयसः ।
अंतरंगतया स्पृष्ट्वा नकारमलिखत्परम् ॥
</verse>
<verse lang="sa">अच्युतोऽस्य लिपिदैवतमग्रे भृंगमेव मृदु विष्टरमासीत् ।
भद्रकुंभपरिपाटिमवर्णं पाद एव परमाक्षतपात्रम् ॥
</verse>
<verse lang="sa">उपघ्नशाखीकृतमानसेन नवोद्गमाया धिषणालतायाः ।
विचित्रितस्तेन करेण रेफो विद्यागमद्वारधियं व्यधत्त ॥
</verse>
<p lang="sa">बालेन तेन नवहल्लकपत्रभासा
व्याकुंचितांगुलिकया विहितो यकारः ।
चक्रे वदान्यमणिरेष इति प्रबुध्या
क्षोणीप्रसारितकरोदरयुग्मशंकाम् ॥
</p>
</page>