This page has not been fully proofread.

तृतीयोल्लासः
 
चरं मिंदु नभसि क्षपासु प्रगृह्य देहीत्यवदत्सवित्रीम् ।
 
स भूयसा कीर्तिसुधाकराणां तं मातृकीकृत्य सिसृक्षयेव ॥
 
29
 
इत्थमतिवाहितद्विहायनो गुरुणा विधिवदनुष्ठितचूडाविधानो
यतिराजः पंचमे वयसि चलाचलशिखंडकैर्बांधवकुमारैस्सवयोभिरनवद्या-
मतिहृद्यतमां लिपिविद्यां परिचितुमारभत । तत्र
 
प्रमोदभारात्परितस्समुत्थितै
 
रजोभिरंगै रमणाभिधाक्षरम् ।
 
वकारमादौ लिखितस्य-
 
तश्शिशोस्समालिलिंगेव तनुं वसुंधरा ॥
 
ॐकाररूपं लिखितं च तेन भूमौ स्वकीयागमसूचनायै ।
विरिंचिपत्त्या प्रहितेन चर्चां चकार तालच्छदवेष्टनेन ॥
 
श्रीमंदष्टाक्षरीनाम्नो मंत्रस्य स महीयसः ।
 
अंतरंगतया स्पृष्ट्वा नकारमलिखत्परम् ॥
 
अच्युतोऽस्य लिपिदैवतमग्रे भृंगमेव मृदु विष्टरमासीत् ।
भद्रकुंभपरिपाटिमवर्णं पाद एव परमाक्षतपात्रम् ॥
 
उपघ्नशाखीकृतमानसेन नवोद्गमाया धिषणालतायाः ।
विचित्रितस्तेन करेण रेफो विद्यागमद्वारधियं व्यधत्त ॥
 
बालेन तेन नवहल्लकपत्रभासा
व्याकुंचितांगुलिकया विहितो यकारः ।
चक्रे वदान्यमणिरेष इति प्रबुध्या
 
क्षोणीप्रसारितकरोदरयुग्मशंकाम् ॥