This page has not been fully proofread.

<page>
<ignore lang="sa">
28
 
</ignore>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
</ignore>
<p lang="sa">
मिव तत्त्वराद्धांतं सूचयन्, आकस्मिकेन घनाघनगर्जितेनेव गंभीरेण

रोदनध्वनिना खांडनिकपाषंडमंडलमिव संतर्जयन्, चंद्रिकाधवलकौशेय-

वितानकलितमरकतमणिशृंखलिकांचललंबिनं,
 
विरहासहनतया
 

समागत्य सेव्यमानं श्यामलनालकोमलं विकचनिजासिकाकोकनदमिव,

पद्मरागमणिकंदुकमवलोकमवलोकं दरहसितमंकुरयन् पर्यंकिकाशयनकुतू-

हलप्रायां ललितललितां कामपि दशामत्यवीवहत् ।
 
</p>
<verse lang="sa">
अंकादंकं संचरन्नर्भकोऽसौ तत्तादृक्षः प्राहसल्लीलयैव ।

पद्मात्पद्मं पर्यटतं मरालं राशे राशिं रंजयंतं विधुं च ॥
 
</verse>
<verse lang="sa">
लाल्येन द्विपमृगराजशाबकाभ्यां मंदेनाजिरभुवि जानुचंक्रमेण ।

पर्यंतप्रसृतनिजप्रभासरस्यामभ्यस्य प्लवनमिव व्यराजतासौ ॥
 
</verse>
<verse lang="sa">
वाणी यशोंऽकुरसखी महनीयशोभा

तस्यानने सममदृश्यत दंतराजिः ।
 

बिंबे विधोरिव सुधारसबिंदुरेखापङ्किस्सरोज

इव भासुरमौक्तिकानाम् ॥
 
</verse>
<verse lang="sa">
वोढुमात्ममहिमानमुदारं न क्षमा क्षितिरितीव सगाढम् ।

अंगुलीं समवलंब्य जनन्या व्यातनिष्ट मृदुचंक्रमभंगीम् ॥
 
</verse>
<verse lang="sa">
लीलासु यावदुदितं प्रथमं पितृभ्यां
 

वक्तुं बहूनि निपुणोऽपि स तावदेव ।

पश्चादभाषत निरंकुशकीर्तिमिच्छन्
 

बाल्येऽपि तद्वचनपालनलीलयेव ॥
 
</verse>
<verse lang="sa">
तौ दंपती धन्यतमाग्रगण्यौ सुतोऽसि नौ कस्य वदेति पृष्टात् ।

एकस्य निर्देशमवेक्ष्य पुत्रादानंदगर्भं हसितं व्यधाताम् ॥
 
</verse>
</page>