2026-01-24 15:17:19 by ambuda-bot
This page has not been fully proofread.
तृतीयोल्लासः
27
समवर्तंत मातुरानंदबाष्पसलिलानि । समीरशाबकैस्समं काश्यपकुला-
धिपः सुस्पर्शनस्सकलजनानानंदयामास ।
कनकांबुजकंदलोपमानं मुखमालोकयतस्सुतस्य तस्य ।
नयनात्पितुरश्रुवारिपूरो निरगादंतरवानिव प्रमोदः ॥
स शिशुर्निसर्गमधुराकृतिः यथाविधि जनकविहितया जातक्रियया
दिनमणिरिव जृंभमाणया दिवसमुखश्रिया, पावक इव पवित्रया
हविराहुत्या, चंद्रमा इवासन्नया शरदा, सहकार इव संप्राप्तया
वसंतसंपदा, स्वाध्याय इव सुशिक्षया समावृत्या केशवोत्संग इवारूढया
कलशाब्धिकन्यया, सद्य एव कमपि रामणीयकविशेषमुदशेषयत् ।
भवितैष यतीशितेति नूनं परमार्थेन विजानतेव बालः ।
गुरुणा स गुरोर्मुदं ददत्या यतिराजाभिधया प्रसादितोऽभूत् ॥
क्रमेण स कुमारको जन्मांतरानुवर्तिनीभिरिव निजासनकमलोदर-
दृढलग्नवराटिकापिंगलिमछटाभिर्वपुरालोकमंजरीभिर्विमानोदरमिव शय्या
सदनमादधानः, शमधनजन इव निविष्टतरुणतरणिमंडलसौभाग्याव-
तार इव, चंपककलिकानां शोधनोपल इव, ज्वलनज्वालानाम्
अपहासक इव, तटिल्लतानाम् औरसकुमार इव, सुमेरुसुषुमायास्सार
इव पीतवर्णस्य विविधकनकरक्षागुलिकामालिकाभिरतिकुटिलतरक्षुनखर-
मणीयमंजुलमध्यभागाभिः कोरकितकण्ठमूलः, मुहुर्मुहुरास्वादनकेलिमृ-
दुलतरस्य चरणांगुष्ठस्य, वादकोलाहलपराजितविमतसुमतिजनोपचरणी-
यदृढचरणविधिसहिष्णुतामिवाभ्यासयंनुत्तानतलेन पादारविंदद्वयेन
मणिगणतुंगसमस्तराजमकुटकोटिसन्यासपरिपाटीमिव भाविनीं विवृ-
ण्वन् पाणितामरसदलायमानांगुष्ठग्रसनविहारेण भवित्रीमिवात्मनः
परमहंसतां प्रकटयन्, सरसिजमुकुलाकारायमाणदृढमुष्टिकया करगृहीत-