2026-01-24 15:51:54 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">26
</ignore>
<heading lang="sa">॥ तृतीयोल्लासः ॥
</heading>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<verse lang="sa">अधत्त पुण्यैरथ गर्भमेषा पुष्यत्प्रभावं पुनरायताक्षी ।
स्फुरन्मणिं पुंड्रकवर्तिकेव कवेरिवोक्तिः कमनीयमर्थम् ॥
</verse>
<p lang="sa">उदरं गतवति भगवति गर्भच्छलेन परमेष्ठिनि मुख्यप्राणे
देवदेवे तदवकाशप्रकाशप्रकाशनसुकृतेनेव तादृशेन तस्या मध्यममपि
महत्तामभजत ।
</p>
<p lang="sa">तदा सिकानलिनपचेलिमदलसेवयेव मन्दं मन्दं मांसलितमभूत्कुच
चक्रवाकयुगलम् । तद्गंधवाताहूतेव मधुपमालानीलनीला विरराज
रोमराजिः। तन्मुखविहरणतुमुलकुतूहलशारदाकिरणनिकुरंबेणेव बहिः
प्रसारिणा शनैश्शनैः धवला बभूव तनुलतिका । तदनु भावभारेणेव
समुदग्रेण नाक्षमेतां पदात्पदमपि चलितुं किसलयपेशलौ चरणौ ।
तत्प्रविचिचीषयेव समुद्वेलया समजनि तरलतरला नयनयुगली ।
तदलंकारवरधारणविलोकनविलज्जितानीव विरलतां यातानि भूषणानि ।
ततः परिणते समये-
</p>
<verse lang="sa">सुतमजनयदेषा शुद्धताभाजि लग्ने
ग्रहगणशुभवीक्षागौरवोद्दामभाग्ये ।
विधिमिव निरपायं विश्ववाचां
निदानं नरकदनुजहंतुर्नाभिनालीकपाली ॥
</verse>
<verse lang="sa">अभादभीशुप्रकरैरयं शिशुः सुमेरुकुंजीकृतसूतिकागृहैः ।
अभूतपूर्वैरमलैरिवात्मनो हिरण्यगर्भत्वमिव प्रदर्शयन् ॥
</verse>
<p lang="sa" merge-next="true">तदा दिशामुखैस्साकं प्रसन्नतामभजंत मनांसि । मंगलशंखध्वानेन
सह समुदजृंभंत प्रीतयो बांधवानाम्। अमरतरुप्रसूनवृष्टिभिस्सार्धं
</p>
</page>