This page has not been fully proofread.

26
 
॥ तृतीयोल्लासः ॥
 
श्रीव्यासयोगिचरितम्
 
अधत्त पुण्यैरथ गर्भमेषा पुष्यत्प्रभावं पुनरायताक्षी ।
स्फुरन्मणिं पुंड्रकवर्तिकेव कवेरिवोक्तिः कमनीयमर्थम् ॥
 
उदरं गतवति भगवति गर्भच्छलेन परमेष्ठिनि मुख्यप्राणे
देवदेवे तदवकाशप्रकाशप्रकाशनसुकृतेनेव तादृशेन तस्या मध्यममपि
 
महत्तामभजत ।
 
तदा सिकानलिनपचेलिमदलसेवयेव मन्दं मन्दं मांसलितमभूत्कुच
चक्रवाकयुगलम् । तद्गंधवाताहूतेव मधुपमालानीलनीला विरराज
रोमराजिः। तन्मुखविहरणतुमुलकुतूहलशारदाकिरणनिकुरंबेणेव बहिः
प्रसारिणा शनैश्शनैः धवला बभूव तनुलतिका । तदनु भावभारेणेव
समुदग्रेण नाक्षमेतां पदात्पदमपि चलितुं किसलयपेशलौ चरणौ ।
तत्प्रविचिचीषयेव समुद्वेलया समजनि तरलतरला नयनयुगली ।
तदलंकारवरधारणविलोकनविलज्जितानीव विरलतां यातानि भूषणानि ।
ततः परिणते समये-
 
सुतमजनयदेषा शुद्धताभाजि लग्ने
ग्रहगणशुभवीक्षागौरवोद्दामभाग्ये ।
विधिमिव निरपायं विश्ववाचां
 
निदानं नरकदनुजहंतुर्नाभिनालीकपाली ॥
 
अभादभीशुप्रकरैरयं शिशुः सुमेरुकुंजीकृतसूतिकागृहैः ।
अभूतपूर्वैरमलैरिवात्मनो हिरण्यगर्भत्वमिव प्रदर्शयन् ॥
 
तदा दिशामुखैस्साकं प्रसन्नतामभजंत मनांसि । मंगलशंखध्वानेन
सह समुदजृंभंत प्रीतयो बांधवानाम्। अमरतरुप्रसूनवृष्टिभिस्सार्धं