This page has not been fully proofread.

<page>
<ignore lang="sa">
द्वितीयोल्लासः
 
</ignore>
<ignore lang="sa">
25
 
</ignore>
<p lang="sa">
शर्करादिमिश्रितैरार्द्रतिलैश्च बहुधा यथाविधि संप्रीणयामास । तस्य

सन्निधावेव प्रसादलक्षणैः प्रदक्षिणज्वालैः श्लाघमानस्येव हविर्माधुरीं

स्थालिकायां हव्यशेषम् अयातयामं स्वयमेवादाय त्रिधा विभक्तं

चिरेणाभिमंत्रितं वधूसखस्य तस्य गृहमेधिनो हस्ते समर्पयन्

इत्थमभ्यधात्। एतदुपयोगादूर्जस्वलायामरण्यामिव पावकानामचिरादेव

भविष्यत्यपत्यानां त्रितयम् ।
 
</p>
<verse lang="sa">
पुण्याय भूरियशसे तव पुष्कलायै

भूत्यै मुदेव पुरुषस्य पुरातनस्य ।

तत्रोत्तरस्य तनयस्य च संप्रदानात्
 

संप्रीणयिष्यसि मनो मम सप्रियाकः ॥
 
</verse>
<p lang="sa">
इत्यभिहितमात्र एव मेधावी प्रसादसूचितानुमतिः प्रियतमावदनम-

वलोक्य दुर्लंघं संस्मरन् वचनं व्यासदेवस्य–
 
</p>
<verse lang="sa">
तत्तथेत्युदितवान् वधूमिमां तानि हव्यकबलान्यभोजयत्

सल्लकेरिव वने महाबलः पल्लवानि मृदुलानि वाशिताम् ।

तत्र कंचिदतिवाह्य तापसः कालमस्य करुणापयोनिधिः

पूजनैः पुलकितस्ततो ययौ चन्नपट्टणमभि स्वमालयम् ॥
 
</verse>
<p lang="sa">
कालक्रमात्कलितदौहृदकंदलश्री-
 

स्सा भीममध्वमुनिनामसमेधितौ द्वौ ।

कन्यामसूत कमलामिव सिंधुवेला
 

दंतावलेंद्रमिव दीप्ररुचं सुतं च ॥
 
</p>
<trailer lang="sa">
॥ इति श्रीसोमनाथकविविरचिते द्वितीयोल्लासः ।
 
</trailer>
</page>