This page has not been fully proofread.

<page>
<ignore lang="sa">
24
 
</ignore>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
</ignore>
<p lang="sa">
मणिविजयघण्टिका समुदजृंभत शिशिरकरमण्डली । एवं सति क्र

सकलामपि सायंतनीं नियमविधामशेषयित्वा परिणामपेशलशाल्मलीतू-

लतुंदिलतुंगदुकूलोपबर्हदृढनिहितकपोणिभाग- बंधुरदक्षिणेतरपाणिपल्लव-

तलसमर्पितकपोलमूलं मृदुलकृष्णसारचर्मपरिस्तृते धवलकंबलोदरे

शयानेन सुखसंवाहनकुशलशिष्यजनोत्संगप्रसारितचरणकिसलयेन प्रसं-

गेन पुण्यां विविधपुराणकथामभिहितवता भगवता तीर्थपादेन कानिचन

सौवस्तिकस्वस्त्ययनसाधनानि संविधेहि साधयेति विहितानुमति:

काश्यपकुलमणिः उन्मरतकांजलि: प्रतिजगाम निजनिकेतनम् ॥
 
</p>
<verse lang="sa">
यतीश्वरादीहितवस्तुलाभं
 

स्त्रिया समं चिंतयतो रजन्याम् ।
 

तल्पांतराले शयितस्य तस्य
 

कल्पा इवासन् घटिकाविभागाः ॥
 
</verse>
<verse lang="sa">
उत्तरेद्युरुदिते दिवाकरे सत्तमं स यतिनां कृतक्रियम् ।

आनिनाय शुचिरादरात्पुनः संचितोचितसमस्तसंविदम् ॥
 
</verse>
<p lang="sa">
तत्र नवीननैष्ठिकीगोमयालेपनचित्रिते बहुप्रसूभिः माङ्गलिकाभिः

विशारदैः पिष्टोपलचूर्णैः निर्व्यूढचतुरस्रप्रसाधनलेखामनोहरमसृणमसृणे

महामंटपकुट्टिमे सरभसशिष्यजनसमर्पिते बृसीफलके समुपविष्टः

तपोनिधिरखिलश्रुतिपारदृश्वभिरंतेवासिभिः स्वाहासहायं भगवंतं
 

हुतवहमाधाप्य हरितहरिताभिः मरकतमणिमयूखशलाकापरिणाहि-

नीभि: कुशमुष्टिभि: चमत्कृतपरिस्तरणालंकरणं जवनिकाभिर्वलयित-

मिव सुमेरुशिखरं शैवालमंजरीभिः परिवेष्टितमिव निबिडकोकनदवाट -

वसनपटलिकाभिः प्राकारितमिव पल्लवितसहकारं, पावनमूर्तिं तं

त्रिभुवनप्रतीक्ष्यं गोकर्णमात्राभिर्बहुविधाभिरग्रवतीभिस्समिद्भिश्च लाज-
 
</p>
</page>