This page has not been fully proofread.

द्वितीयोल्लासः
 
इत्युक्तो यतिसंसदामधिपतिः पश्यन् प्रतीच्या दृशा
दंपत्योर्विहितावतारमनयोस्तत्तादृशं पौरुषम् ।
वाचा गाढतरार्थया परममित्यन्वग्रहीत्सादरम्
भक्तप्रार्थनपूरणेष्वभिरतिं संतो हि संतन्वते ॥
 
शिष्यैस्समं द्रुततरैरथदेवपेटी-
कुंडीबृसीवसनदंडलताग्रहैश्व ।
एवं प्रतोषितहृदा गृहमेधिनापि
 
देवालयं प्रति गृहान्निरगात्स योगी ॥
 
योगिनस्तस्य करुणाकामिनीवीक्षणात्तदा ।
 
सकाण्वतिलकोऽधत्त भूरीन् पुलककुट्मलान् ॥
 
23
 
तावन्महात्मनस्तस्य तेज:पुंजं समीक्ष्य दुर्निरीक्षमगमदपरवारिरा-
शितटं ह्रीण ह्रीणइव भगवानंशुमाली ।
 
मन्दं मन्दं संकुचितांचलास्तरुणचरणायुधशेखरश्रीजुषोविरहविक्ला-
वानां सरोजिनीनां सद्य एव पुनरागमनाय सशपथं स्पृशंत इव
शिरांसि व्यराजंत सरसीरुहेषु मिहिरकराः । अस्तं याते दयिततमे
भास्वति, परमुखावलोकनकलुषकातरा इव न्यमीलयन् पुटंकिन्यो
नालीकनयनानि । वियोगशोकस्पुटितनिलिंपधुनीपुलिनकोकमिथुनहृदय-
क्षरत्क्षतजप्रवाहेणेव संध्यारागेण रंजितमभूदंबरतलम् । कामिनीजनमा-
नापजिहीर्षया केलीरमणधीवरविस्तार्यमाणेनेव मेचकगुणविरचितेन
जालेन मन्दं मन्दंमापतता तमसा समजनि समावृता जगती ।
निस्सीमचारणपथसंचरणरयभरपरिश्रांतदिनकररथखरतुरगखुरखलीनखं-
डितलपनपरिगलितार्द्रफेनबिंदव इव नभसि समालक्ष्यंत तारनिकरा: ।
न केनापि मानवता भवितव्यमिति पुंरदरदिशि मदनमहीपतेरिव