This page has not been fully proofread.

222
 
श्रीव्यासयोगिचरितम्
 
स तत्र हृषितहृषितमनाः तनुतरतरुणकर्बुरलोमसंदानितेन
पारिजातकुसुमकेसरसुकुमारेण समवायेन पञ्चवर्णासारिसांगकुरंगीसहच-
रचर्मशेखरितेन परिणाहिना चित्ररल्लकेन संघटितायामंतर्मंटपवितर्दि-
कायां, विविधधातुशबलितप्रथमधरणीधराधित्यकायां प्रभातसमयेनेव
बालमार्ताण्डमण्डलं मन्दमात्मना समुपवेश्य तमेनमर्घ्यादिकया प्रशस्य-
या वरिवस्यया विकचोपचारभूयसा वचसा च शिष्यैस्सह मोदयामास ।
कृतभिक्षं च परिगलितश्रांतिभरं चिरेण तदनुमत्या स्वयमपि
निर्वर्तिताभ्यवहृतिरादरादासाद्य पुष्करितांजलिः पुंखानुपुंखसांद्रतरबाष्प-
गद्गदकण्ठः किंचिदाकुंचितपूर्वकाय: प्रश्रयेण यतिपरिवृढमाबभाषे ।
स्वामिन्नहमिदानीं कृतार्थीकृतोऽस्मि संदेशहरेणेव भाविभद्रस्य
विवर्तनेनेव प्राक्तनसुकृतस्य कुंभीलकेनेव शोकस्य कुठारकेणेव
कल्मषपादपस्य प्रसादकेनेव वंशस्य सव्यवायकेनेवानंदबीजस्य
धन्येतरदुरापेन महता तत्रभवतः समागमनेन माननीयेन । तथापि
दुर्लभतया महत्सन्निधानस्य, निरंकुशतया संमोदस्य, चपलतया
रसनायाः, समुचिततया समयस्य कृपालुतया तत्रभवतः प्रियतमतया
प्रश्नाभिधेयस्य तरलतया चात्मनः, किंचिद्भवते विज्ञापयामि ॥
 
श्रीकाश्यपान्वयमणिर्मम तातपादः
 
श्रीरामदेव इति दीप्तयशः प्रभावः ।
 
कस्यापि मस्करिपतेः करुणाविलासात्
 
प्रासोष्ट षट् पटुधियः प्रथितान् कुमारान् ॥
 
तादृशेषु समनोविकासनिपुणेषु प्रथमानयशस्सुरभितेषु कनीयान्
ऋतुषु शिशिर इवाहमतिचिरमपुत्रतया वात्ययेव तृणभ्रमिः भ्राम्यमाणः
प्रियतमया तया कंदलितोत्साहः पुनरपि श्रोत्रियसुतां कांचिदक्कम्मा -
भिधां पर्यग्रहीषम् । तथाप्येतावंतं कालमनुन्मेषितकुलांकुरस्य
वांछितोदयस्तत्रभवतः कारुण्यकणिकायत्ततमः ॥