This page has not been fully proofread.

द्वितीयोल्लासः
 
21
 
कुंजरकुमारं कनकपिंगलगोपीचंदननिर्मितैः परिसरजागरूकपञ्चमुद्रिका-
विन्यासैः प्रांशुभिरूर्ध्वपुंड्रैः पवित्रीकृतसमुचितावयवं लंबमानमंजरीधुरं
धरं चरिष्णुमिव सुमेरुतटराजच्छाखिनं, जर्झरीतिलककल्माषितेन
समुच्छ्वसितपर्वणा षड्गुणितकौपीनमुद्राचमत्कृताग्रभागेन दुर्ज्ञानविपिन-
खण्डनपरश्वधेनेव भवभुजंगविषापसारणवेत्रेण विरक्तिलतिकोपघ्नस्तंभे-
नेव दुष्कृतमदावलतोत्रेणेव मुष्टिविधृतेन तनीयसा दण्डेन
किंचिदासंजितवामांसकूटं तिंत्रिणीसारशोधनमेदुरितथालथल्यं,
 
स्वतेजसा विनिर्जितबंदीकृतमिव नवमरीचिमालिबिंबं समुदग्रया
नासिकया सोऽयमेव तत्र भगवतः कारुण्यभाजनमितीव पुरतस्सूचयंतं
ताम्रकमण्डुलं पाणिना दक्षिणेन बिभ्राणं, पटीरदारुफलकघटितां
चटकुचटकुरुतेन समाधिविजयानुकारिणीं चरणेन पादुकां स्पृशंतं,
पावनपवनजपस्पंदमानाधरविवरविगलदमलदशनाभीशुनिचयेन
चित्तनैर्मल्यप्रवाहमिवोद्वेलयंतमतिप्रगल्भैरितस्ततो नयनविक्षेपैरंतर्गभीरि-
माणमिव ज्ञापयंतं बद्धमूर्तिमिव मध्वराद्धांतं, मूलकोशमिव महामंत्राणां,
वैक्रयिकमिव वैष्णवाचाररत्नानां, खलीनमिव दुर्ललितेंद्रियघोटकानां,
नीडमिव नियमशकुंतानां, चंक्रमणरंगमिव षड्दर्शनानां, विजयस्तंभ-
मिव तत्त्वज्ञानस्य, ललितमिलिताकृतितत्तादृशवैभवं योगिनमेनमव-
लोक्य विस्मयकबलितहृदयो भक्तानुकंपिना व्यासदेवेन स्वप्नसमयानुगृ-
तस्य महीयसो ब्रह्मण्यशब्दस्यायमेवार्थ इति चेतसा निश्विकाय ।
ततोऽसौ सरभसमुपसृत्य -
 
साकं पादूं सरसिजदृशा संप्रणामे तदीयाम्
गौरीं कृत्वा निटिलतटिकागोपिकाचंदनेन ।
पाणे: कुंडीं प्रचुरविनयः पावनीमादधानो
 
भक्त्या स्वीयं मुनिवरममुं प्रापयामास गेहम् ॥