This page has not been fully proofread.

20
 
श्रीव्यासयोगिचरितम्
 
परिचिचीर्षया प्रथममेवावतीर्णानामिव सत्यलोककुटुंबिनां महानुभावसुगृ-
हमेधिनां विचारकृत्ता वेदवाक्येषु, शंकमानता शास्त्रपाठेषु, खण्डता
परमतेषु, निर्मर्यादता विद्यासु, निग्राहकता हृषीकेषु, बहुभाषिता
वादेषु, भीरुकता पापेषु, हिंसकता यागपशुषु, लोलुपता हरिकथासु,
विस्मृतता दुश्चरितेषु ।
 
नाम्नां कयित्वा तं वंदे रामेण स्थापितं पुरा ।
वीक्ष्य विस्मयमानोऽसौ मुमुदे मुनिपुंगवः ॥
 
तदानीं वांछितसिद्धसाधनाय माधवाराधनां विधाय विविधाभिर्द-
क्षिणाभिर्विस्मापितमनसो ब्रह्मसदसो नेदिष्ठफलजुषामाशिषां कोटी:
कोटीरयित्वा सविनयं विरचितानुचर्यया भार्यया सह देवालयान्निष्क्रामन्
संफुल्लमानसपरिपाको बल्लणसुमतिर्नातिदूरे विहाय निद्राविहारमनुजि -
घृक्षया भगवंतं रंगदेवमिव दक्षिणदेशं समायांतं मस्तकतलविन्यस्तपुस्त-
कभारैस्तरुणप्रायैः शुचिभिर्धर्मैरिवाम्नायानामंतेवासिभिरनुगम्यमानमभि-
नवजांगलिकदललोहितेन विद्रुमविस्तारेणेव तेजोऽबुराशेरुत्पातसंध्यारागे-
णेव संसारवासरस्य पल्लवपटेनेव तपश्चूतस्य, मृदुलमृदुलेन
काषायवसनेन, बालातपमकालीनमिव प्रबलयंतं तरुणशिरीषकिंजल्कमं-
जुताभंजनरुचा, विलसदपांगशोणिम चुंबिताग्रेण श्रवणवामलूरुसमुत्पति-
तेनेव शतमखधनुरंकुरेण, कालकनीनिकामणिजंबूविभ्रमसमापतितेनेव
तनुतरशुकशाबकेन, किंचिदाकुंचितेन महनीयरहस्यामिव मुक्तिपदवीमुप-
दिशता हरितपत्रस्तबकावतंसेन कवलितकर्णमूलं कवाटफलकविशालव-
क्षस्थलप्रेंखोलितया प्रसृमरकलेवरदीप्तिकोकनदवाटसंदेहादनुसरत्येव
 
मधुकरधोरणिकया, विश्वंभराध्युषितहृदयमंटपस्य बलभिदुपलकल्पित -
येव बहिर्मंगलतोरणमालिकया बहुलया तामरसबीजगुलिकास्रजा
परिष्क्रियमाणं वनसरसीविहरणस्कंधावसक्तबालकुवलयदामानमिव