2026-01-24 15:17:18 by ambuda-bot
This page has not been fully proofread.
द्वितीयोल्लासः
19
ह्लारवातपर्यटनसरससारसमिथुनयूथमस्तकशोणिमविस्तारमिषेण सरस्व
तीसङ्गमसंभावनामिवोद्भावयंती, धात्रीव दक्षिणदेशस्य, जटालतेव
मुक्तिकन्यायाः, प्रहारिकेव पातकमलिम्लुचानां संमोदागमपद्धतिरिव
सागरस्य, कल्याणपरंपरेव कवेरस्य, पण्यविशिखेव पुण्यसंचयानाम्,
अर्गलेव दुर्गतिद्वारस्य, संव्यानशाटीव सर्वंसहायाः, वागुरिकेव
भवभयमृगस्य, कीर्तिलतिकेव कैवल्यस्य, त्रिभुवनपरिपावनी
सर्वासामपि सरिताम् अधिदेवता विजयते भागधेयलक्ष्मीरिव
मध्यलोकस्य ।
तदनु सलिलैः पुण्यैस्तस्याः सुधारससोदरैः
निभृतमवधीं नीत्वा माध्यंदिनीं नियमक्रियाम् ।
सपटुमतिभिः शिष्यैः सार्धं तटे मुनिरुत्तरे
बहुलविपुलं बन्नूराख्याग्रहारमियायतम् ॥
आकृष्य सह्याद्रितटाज्जवेन कूलं कवेरात्मजया तरंगैः ।
उत्कूलितस्याश्रममण्डलस्य पुष्णाति यः पूर्णगुणेन शोभाम् ॥
यत्राधिवासं रचयन्द्विजौघो निसर्गचित्रैर्नियमैर्मुनीनाम् ।
चिरंतनानां जगति प्रतीतां सप्तत्वसंख्यां शिथिलीकरोति ॥
वीक्ष्य ह्रिया यत्र युवाभिरूप्यं प्राणान् स्वयं पञ्चशरो मुमोच ।
भस्मीचकारेति तमीक्षणेन प्रवादमात्रं फलितं पुरारेः ॥
द्विजन्मनां यत्र दुरापपारां श्रियं समालोक्य चिरायमाणाम् ।
अभून्न वै ब्राह्मण इत्यमोघमपि श्रुतेर्वाक्यमलं ममार्ज ॥
यत्र विस्मयनीयपावनचरितापसारितपातकानां, पाषंडमतखण्ड
नाय भूमण्डलमवतरिष्यतो भगवतः परमेष्ठिनो मुख्यप्राणस्य