This page has not been fully proofread.

18
 
श्रीव्यासयोगिचरितम्
 
धीमान् समारभत देवगृहे विशेषा
त्पूजोत्सवं कलयितुं पुरुषोत्तमस्य ॥
 
तत्रांतरे -
 
-
 
शिष्यौघेन यदृच्छयैव स महांस्तेजोमयेनावृतो
भिक्षूणामधिनायको प्रतपसां ब्रह्मण्यनामा मुनिः ।
कावेरीं समुपाजगाम विलुठत्कल्लोलमल्लावली
वाताघातविलोलितांबुजगलन्माध्वीकरीवर्धिताम् ॥
 
श्रेयः पत्तनगोपुरं दितिभुवां डंभच्युतिप्रक्रमो
निर्मर्यादकृपाप्रवाहलहरीनिर्याणकच्छस्थली ।
संसाराटविमार्गशौल्किकपतिः संमोदकंदश्रियो
निर्णीतिर्वचसामलीढजनुषां निद्राति यत्सैकते ॥
 
,
 
या खलु सकलपरममुनिजनावगाढसलिला परिणतपृथुफलभरा-
नप्रैराम्रैर्गगनकुहरविसृमरसौरभ कुसुममाला गुरुभिरगुरुभिर्विटपजनित-
तरणिकिरणावतरणनिरोधैः, न्यग्रोधैरामूलकलितफलस्तबकनिराडंबरैः
औदुंबरैः, शाखाभुजालिङ्गितलतावधूकैर्मधूकैः, जलधरपदवीलंघनाकल-
होदारैः कोविदारैः वियोगिजनमानसवितीर्णगाढवरशोकैरशोकैः,
निस्सीममधुरिमप्रचुरीमण्डितफलैः कण्टकिफलैः, मदनविजयपिशुनबह-
लमुकुलैर्बकुलैः, तांबूलिकापरिरंभसंपादितकुतुकैः क्रमुकैः, धवलितदिगं-
तरालफलभारैर्नारिकेलैः, घटितविशङ्कटतटप्रदेशाक्वचिद्विकचकुवलयचय-
शतभरितमधुरिमधुरीणमधुरससपीतिककरंबित बिब्बोकांडंबरलोललोलंब-
कदंबमेच कितापदेशेन निरंतरकालिंदीसन्निधानमिव
क्वचिदुच्चंडनालपुंडरीकषंडमण्डनायमानकेसरसृजदुग्धीसमुद्धतजालपाद-
मण्डलपाण्डिमव्याजेन त्रिपथगासमागममिवागमयंती, कचिदुत्फुल्लक-
 
संदर्शयंती,