This page has not been fully proofread.

द्वितीयोल्लासः
 
17
 
प्रज्ञासाम्राज्यस्य, मूलकन्दवलयेनेव करुणालतायाः, दंतताटंकेनेव
शारदायाः, स्फटिकपादपीठेनेव पद्मायाः, विधूतकलंकेन कलासमग्रेण-
स्थेयसा केनापि चंद्रमसा च शेखरितां काञ्चन काञ्चनपात्रिकामदृष्टपूर्वां
मम पाणौ व्यसीसृजत्। अनंतरं च कश्विदगण्यानुभावो नाम्ना
ब्रह्मण्यः सद्य एव योगी समागत्य मनीषितं युवयोर्वर्धयिष्यति ।
तदवश्यं युवाभ्यां तदनुशासनानुवर्तनजागरूकाभ्यां भवितव्यमिति
अनुगृह्यांतर्दधे । ततस्तां करतले वर्तमानामवलोक्य किमिदमिति
मृदु विस्मयमानया तथैव समुदमीलि मयेति । मङ्गलप्रथमावतारसरणिं
वाणीमाकर्ण्य तस्या: समुदंचितरोमांचप्रपञ्चकंचुकितसर्वावयवो
 
हर्षमयमिव निखिलमपि लोकमवलोकयन्नभिनवमिवात्मानं मन्यमानः,
कैवल्यसुखमपि निराकुर्वतीं मनसा निरंतरोत्संगनिषण्णस्वकुमार (स्य )
परिरंभणोत्सवमनुभवंतीमब्रवीत् ।
 
पूर्वमाश्वासितं येन मया संमोदबिंदुना ।
 
अद्य तं सागरीकृत्य मां मज्जयसि शोभने ॥
 
न जातुचिदपि गिरो महतामपरथा भवंति । अधुना फलितममुना
यतो जीवन् भद्राणि पश्यतीति वचनेन । आवयोरत्रैव लक्ष्यते
मणिमुकुर इव पुण्यचरितम् । किं नाम न प्रसूते
नारायणवरभक्तिकामगवीति ।
 
मणिविरचितमञ्चान्मन्दमुत्थाय हृष्टः
 
चिरमथ समुपास्यन् स्नानपूर्वं दिनेशम् ।
अमृतरसधुरीणैर्हव्यजालैः सलाजैः
 

 
स्तुतिभिरपि समिद्भिः तोषयामास वह्निम् ॥
 
सार्धं द्विजन्मभिरसौ सकलश्रुतीनाम्
पारंगतैरपि च भागवताग्रगण्यैः ।