2026-01-24 15:36:28 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">16
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<p lang="sa">सुखं सुष्वाप । तदनु परितापमनयोरवेक्षितुमधीर इव शनैरशनैरपयाति
विभावरीसमये भवानीरमणनटनवेगभ्रश्यमानविधुमण्डल इव शशिम -
ण्डले गगनपथसंचारपरिश्रममपनोदितुमिवावतरति तटमपरांबुधेः
नभोमण्डलमारुरुक्षोज्योतिस्सार्वभौमस्य
पुरस्सरेणारुणसौविदल्लेन
किरणकनकवेत्रलतया समुत्सार्यमाण इव दूरीभवति तारानिकरे
हिमकरविरहानलधूमधोरणीष्विव कुमुदवाटिकायामुत्पंततीषु मधुकरीषु,
पयसिजशय्याप्रबुध्यमानकमलामणिमेखलाक्वणितेष्विव
समुन्मिषत्सु
सत्सु सारसरणितेषु, पुटकिनीवनपर्यटनचटुलजलदेवताचरणमंजरीशिं-
जितेष्विव समुदंचितेषु कलहंसविरुतेषु, प्रत्युपाध्यायगृहदेहलि
मन्दमन्दमध्ययनमुखरतां मुञ्चमानेषु माणवकेषु, समारब्धपावनमधुमथ-
नमङ्गलस्तोत्राडंबरेषु जरठभागवतेषु, पिपासतामग्निहोत्रधेनुस्तनंधयानां
बर्बरारवैर्जर्जरितेषु यज्वभवनेषु,
</p>
<verse lang="sa">संमोदबाष्पसलिलैस्तरलीभवद्भिः
धाराललोचनचलाचलपक्ष्मपङ्किः ।
स्वप्नोपलब्धकुशलाभ्युदया शुभांगी
प्रबुद्ध सा प्रथममेव जवेन भर्तुः ॥
</verse>
<p lang="sa" merge-next="true">अनुपदमेव मुक्तनिद्रं, मुकुन्द, हरे, मुरशासन, शरणं भवेति
संकीर्त्य शयनतलादुत्तिष्ठतं प्रियतमं प्रदक्षिणीकृत्य चमत्कृतनमस्क्रिया
सा जगाद सबहुमानम् । अये भद्रं भद्रम् । अयं हि सुप्रभातो
दिवसः । इदानीं तु स्वप्ने परमकारणिको, भक्तजनपारिजातः,
स भगवान् पाराशरिः स्वयमेवागत्य भद्रे, प्रसादितोऽस्मि युवयोस्तपसा
दुश्वरेणेति मधुरसासारमुचा बाचा वदन्नयमानन्दयत् । शरीरिण्येव
शुद्धदेवतया कयापि शंखशुक्त्या सुधारसबुद्बुदमुकुलाकारजुषा केनापि
मौक्तिकमणिना कौमुदीघनसारपूरितब्रह्मांडकरण्डकेन मौक्तिकच्छत्रेणेव
</p>
</page>