This page has not been fully proofread.

द्वितीयोल्लासः
 
15
 
पाणिद्वयेन तनयैः परिधूसरेण मा मेति मंदवचसाऽप्यनुनाथ्यमानैः ।
आलोडितान्यमृतसख्यधुरंधराणि ये भुंजते जगति मङ्गलभोजनानि ॥
 
किं वा पूर्वतनेषु जन्मसु न तादृशं सुकृतमावाभ्यां चरितम् ।
तदास्ताम्। सहजालीकाः किं शाकुनिका: । वंध्याशिषः किं
वसुंधरानिमिषाः। उद्धृतानुभावं किमुपश्रवणम् । निश्चयापटवः किं
निषादयोषितः । विगतविचारणाः किं विप्रनिकाः । गलिताभिधेयं
किं गौलिकावचनम् । असिद्धिपरतंत्रा: किं परममंत्राः । विरचितासुर-
भावः किं व्यासदेवः। देवताशून्यानि किं त्रिभुवनानि । अथवा
समस्तं वितथमेव ।
 
पुष्यत्कृपालहरिपूर्णकटाक्षवीक्षा-
 
संत्रायमाणजगता सकलोत्तमेन ।
कंसारिणाऽस्मदभिकांक्षणपूरणाय
 
किं वा विलंबनविधिः क्रियते न जाने ॥
 
इति महीयसा शोकवेगेन करुणमाचक्षाणः प्राणनिभां वल्लभां
अमृतोपमेयैर्वचनैराश्वासयदाचख्यौ च ।
 
मा गा विषादमधुना महिले श्रुणु त्वं
 
वेगादिह स्फुरति मे विपुलोरुभागः ।
विद्रावितानतभयो विमनस्थयोन
 
भद्रागमे स तु हरिर्भगवान् प्रमाणम् ॥
 
इत्यनेन कुशलोदर्केण सब्रह्मचारिणेव सुधारसस्य, वैतालिकेनेव
निद्राणहर्षस्य, प्रास्थानिकपटहेनेव शोकस्य, मनोरथमिव हस्तेन
समर्पयतार्द्ररसनो दयमानया वरवर्णिन्या किमपि भाषमाणश्विरादनति