This page has not been fully proofread.

14
 
॥ द्वितीयोल्लासः ॥
 
श्रीव्यासयोगिचरितम्
 
अथ कदाचिदतीतेषु वासरेषु कतिपयेषु तत्र वह्निपुरे
निरवशेषितनिखिलनिशामुखनिशांतकरणीयकठोरविविधाचरणकर्शि-
तांगी, घर्मसमयपरिम्लानेव नवमालिका, दिनमणिकिरणपरितापितेव
दर्शेदुलेखा, महीयसा गुणेन सौंदर्यादिना द्वितीयेव कमला भगवती
साक्षाल्लक्ष्मीश्चिरादनपत्यतादूयमानमानसा, दुग्धफेनपिण्डपाण्डरदुकूलो-
त्तरच्छदे स्फटिकपर्यंके कलशसागरोदरपरिकल्पिते दर्वीकरसार्वभौमतल्पे
शयानमिव नारायणं कुलवृद्धिकंदलाय संततमनुवर्तमानया कयापि
चिंतया मुहुर्मुहुर्निःश्वसंतं प्रशस्तगुणवैभवं प्रचुरतरसंपत्तिं परमपुरुषाश्रय-
मपि प्रदीपैकसहायं वल्लभं बल्हणसुमतिमभाषिष्ट ।
 
किं पटैः किं पिटीरैर्वा किं धनैः किं न बांधवैः ।
किमाहारैः विहारैर्वा दंपत्योरनपत्ययोः ॥
 
अये कष्टं किमन्यदनपत्यतायाः ।
 
तिरयति या कवाटफलकेव लोकयोरुभयोः सुखागमनद्वारम् ।
ग्लपयति या दवानलशिखेव वनतरुपल्लवानि पितृगणमनांसि । जनयति
या रजनीविरतिरिव कुवलयकुमुदयोर्दंपत्योः साधारणं दुःखम् । दर्शयति
या दृशिरिव पटलदूषिता शोभनान्यर्थान्तराणि । निष्फलयति या
प्रवाताहतिरिव कमलमणिगणशतानि सर्वकर्माणि । समापयति या
चरमप्रणवलेखेव स्वाध्यायस्य कुलस्य प्रचारम् ।
 
अपत्यहीनं कुलमागतस्य कथं प्रकाशः कमलागुणस्य ।
मधोरिवानोकहवाटशून्ये देशे महांतं दधतोऽवतारम् ॥
 
त एव खलु धन्यमूर्धन्याः ।