This page has not been fully proofread.

प्रथमोल्लासः
 
13
 
खंडनं चक्रे । तत्रांतरे तस्य मणिमतो मायाविलासनिरसने महानुभावेन,
पूर्वमखर्वतरगर्वशर्वरीचरसार्वभौमकुलनिर्वापणधूर्वहसर्वंकषदोर्दंडचंडिमप-
रिपूरितदाशरथिमनोरथेन, प्रकटितांजनेयभावेन, तदनु कनकपट्टशृंगारि-
तप्रोद्दामभयानकगदामुखपायसपारणायितधार्तराष्ट्रशतानन्दितमुकुन्देन,
दर्शितकौंतेयभावेन, पश्चाद्वैदिकाचारप्रवर्तनबद्धकच्छेन, मध्वमुनिनामधे -
यप्रसाधितसकलभुवनत्राणेन मुख्यप्राणेन, ब्रह्मसूत्रस्य मदनुज्ञया तदा
विरचितमदूष्यं भाष्यम् । तत्तु कालमेतावतं विपत्क्रियावसानेन
माननीयेन पुरशासनवरेण दारुणेन राहुणा कवलितमिव
दुश्शकोन्मेषमवर्तत मण्डलं चण्डभानोः । इतः परमचिरादेव
कवेरकुमारिकातीरशेखरबन्नूरुवास्तव्ययोश्चिरं मदुपासनेन माननीयेन
भागवतावतंसयोरवतीर्णयोरिव
 
पुत्रीयतोः
 
.
 
भुवमरुंधतीवसिष्ठयोः
 
तपस्तपतोरिव स्वाहानलयोरतिपावनचरितयोर्लक्ष्मीबह्नणसुमतिनाम्नोर्दं-
पत्योर्मदुपासनमहिम्नाऽतिपावनचरित्रसर्वातिशायिशेमुषीविशेषकन्दलि
तः कुमारो भविता । तस्मिंश्व मदनुशासनं शेखरमिव शिरसा
बहनू, स एव पुनरपि भावितावेशरूपावतरणमङ्गलो, मुख्यप्राणो,
मानुषस्यैव भावमनुकुर्वाणो ब्रह्मण्यमनोरथमपि सार्थकीकृत्य
'विविधचरित्रविचित्रैः अखिलमपि भुवनं विस्माययन्, जाङ्गलिक
इव मंत्रेण सरीसृपवेगं, तरणिरिव किरणेन तमः प्रचारं, घनाघन
इव वर्षेण धर्मतापं, भिषगिव भेषजेनाऽमयं पुरा कलितनिजभाष्यप्रवर्त
नेन विमतप्रपंचितदुर्मतमुन्मूलयन् संस्थापयिष्यति सर्वाणि कर्माणि,
तदिदानीं मा भैष्टेत्येवमनुगृह्णतं भगवन्तं व्यासं प्रणिपत्य मुदितमुदिताः
तदनुमतिपुर : सरं सर्वेऽपि मुनयो यथागतं प्रत्ययासिषुः ॥
 
॥ इति सोमनाथकविविरचिते व्यासयोगिचरिते प्रथमोल्लासः ॥