2026-01-24 15:33:57 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">12
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<verse lang="sa">इति प्रकृष्टैर्मुनिभिः स पृष्टः प्रहृष्टचेताः प्रतिसंबभाषे ।
पाराशरस्तान् परमार्थवेदी मन्दस्मितस्यंदनसुन्दरोष्ठः।
॥</verse>
<verse lang="sa">समयसमुचितोनुयोग एष
स्वचरितविद्युतिभीतभीतधीभिः ।
व्यरचि खलु तपोऽधुना भवद्भिः
समवहिताः श्रुणुताखिलं वदामः ॥
</verse>
<verse lang="sa">मणिमानिति वातसूनुना
सह युध्वा समरे पराजितः ।
असुराधिपतिर्हरं
जगद्गुरुमानंदयदर्चया पुरा ॥
</verse>
<verse lang="sa">संप्रीणितेन मनसा शशिशेखरेण
देयं किमित्यभिहितो दितिसूनुरेषः ।
इच्छामि जेतुमतिमात्रबलेन भीम
मित्यब्रवीद्विपुलमानससाहसश्रीः ॥
</verse>
<p lang="sa">एवं दुर्वितरं वरं प्रार्थयमानस्य मानधनाग्रेसरस्य वचनमाकर्ण्य
तस्य दरहसितविकसितगण्डपालिश्चंडिकाजानिः पुनरप्येवमब्रवीत् ।
</p>
<verse lang="sa">शक्यो जेतुं किमु स भगवान् सप्तलोकीविधाता
मुख्यप्राणो मुरदनुजभिद्भक्तमूर्धन्य एषः ।
कृत्वा मायामतमभिनवं मोहनायामुना त्वं
किंचित्कालं शिथिलय मतं तस्य तत्त्वावबोधम् ॥
</verse>
<p lang="sa">इति पुरशासनादासादितवरेण, केरलभुवि द्विजकुले कृतजन्मना,
सङ्करनामधारिणा, विविधमायामहीयसा, पापीयसाऽनेनैव, वेदपदवी-
</p>
</page>
<ignore lang="sa">12
<ignore lang="sa">श्रीव्यासयोगिचरितम्
<verse lang="sa">इति प्रकृष्टैर्मुनिभिः स पृष्टः प्रहृष्टचेताः प्रतिसंबभाषे ।
पाराशरस्तान् परमार्थवेदी मन्दस्मितस्यंदनसुन्दरोष्ठः