2026-01-24 15:17:15 by ambuda-bot
This page has not been fully proofread.
12
श्रीव्यासयोगिचरितम्
इति प्रकृष्टैर्मुनिभिः स पृष्टः प्रहृष्टचेताः प्रतिसंबभाषे ।
पाराशरस्तान् परमार्थवेदी मन्दस्मितस्यंदनसुन्दरोष्ठः ।
समयसमुचितोनुयोग एष
स्वचरितविद्युतिभीतभीतधीभिः ।
व्यरचि खलु तपोऽधुना भवद्भिः
समवहिताः श्रुणुताखिलं वदामः ॥
मणिमानिति वातसूनुना
सह युध्वा समरे पराजितः ।
असुराधिपतिर्हरं
जगद्गुरुमानंदयदर्चया पुरा ॥
संप्रीणितेन मनसा शशिशेखरेण
देयं किमित्यभिहितो दितिसूनुरेषः ।
इच्छामि जेतुमतिमात्रबलेन भीम
मित्यब्रवीद्विपुलमानससाहसश्रीः ॥
एवं दुर्वितरं वरं प्रार्थयमानस्य मानधनाग्रेसरस्य वचनमाकर्ण्य
तस्य दरहसितविकसितगण्डपालिश्चंडिकाजानिः पुनरप्येवमब्रवीत् ।
शक्यो जेतुं किमु स भगवान् सप्तलोकीविधाता
मुख्यप्राणो मुरदनुजभिद्भक्तमूर्धन्य एषः ।
कृत्वा मायामतमभिनवं मोहनायामुना त्वं
किंचित्कालं शिथिलय मतं तस्य तत्त्वावबोधम् ॥
इति पुरशासनादासादितवरेण, केरलभुवि द्विजकुले कृतजन्मना,
सङ्करनामधारिणा, विविधमायामहीयसा, पापीयसाऽनेनैव, वेदपदवी-