This page has not been fully proofread.

प्रथमोल्लासः
 
भद्रं किमारण्यफलाशिनां वः सारङ्गयूथैकसहायभाजाम् ।
निर्विघ्नताश्रीर्नियमक्रियासु जागर्ति किं वा सफलोदयासु ॥
 
किसलयति न पीडां किं न तापोवनीनां
 
नु
 
विटपिपटलिकाभिर्व्याहतिर्दाववह्नेः ।
अनिशमतिथिसार्थाः किं सपर्याकृतार्थाः
 
विलसति दृढशक्तिर्वैष्णवी किं नु भक्तिः ॥
 
11
 
इत्थं क्षेमानुयोगपुरोगामियत्तामिवापरोक्षयंतीं सुधामधुरिम्णो,
निशम्य ते भगवतः पाराशरस्य वाणीमनणीयसीभिः आनंदकंदलीभिः
कवलितमनसः सविनयमेवं व्यजिज्ञपन् ॥ ब्रह्मन्! कुतोऽवकाशः
कुशलेतरप्रसंगस्य भगवदनुकंपानदीमातृकाणाम् । किं तु पुरंदरपुरोगवृंदा-
रकवृंदकांचनमकुटावतंसायितचरणारविंदस्य भारतीजानिकुलभागधे-
यस्य त्रिभुवनस्वैरपरिचंक्रमणविलासरसिकस्य निरंतरोपकुंचितपाणिकम-
 
लांचितविपंचीगुणपद्यारोपितविविधावतारक्रमबिरुदावलिगानकलावशीकृ-
तकमलासखमानसस्य भागवतमूर्धन्यस्य तत्रभवतो नारदस्य मुखादद्यैव
जगत्पाषंडाक्रांतमस्माभिः श्रुतम् ।
 
भवतोऽधिगतान्येतान्यखिलानि तपोनिधे ।
'बलाहकैरिवास्माभिरंभांसीव पयोनिधेः ॥
 
तदा प्रसङ्गेन तापसगोष्ठीभिः साराभिर्युगधर्मं पृच्छयमानेन
पादे चैव हि कलेर्विश्वसनीयवेषैः पाषंडैरुत्पातवातैरिव जलनिधेः
• जगतः कलुषीकारो महान् भविष्यतीत्यन्वग्राहि भगवता । तथाप्यधुनैव
तरुणभुजगगरलस्येव बहुलदिवसावसानसंतमसस्येव प्रलयानलधूमनिवह-
स्यैव समुज्जृंभमाणस्य किमस्य कारणं कदा वा शांतिश्च ।