This page has not been fully proofread.

10
 
श्रीव्यासयोगिचरितम्
 
तनीयस्या स्फुरदूर्ध्वपुंड्रपुंड्रिकया परिकर्मितफालप्रदेशं, करुणारसपूरनिरं-
तरनिर्याणकच्छस्थलाभ्यां स्वमूर्तिविभागनिदानहरिस्मरणानुमानीभवदृढ-
 
निमीलनाम्रेडनपरिपाटलाभ्यां
 
विषयसंन्यासपरिगृहीतकाषायाभ्यामिव
 
विलोचनाभ्याम् इतस्ततोऽनुगृह्णतं, व्याख्याविलासविवृताधरपुटविसृत्व-
रीभिर्बालवलाहकवारिशीकरप्रथमसंगमविकचकुटजकुसुमकेसरद्रोहिणी-
 
भिरुत्पतंतीभिरिव
 
शारदाविजयकेतनदुकूलपताकाभिर्वल्गंतीभिरिव
 
विद्यामृतप्रवाहडिंडीरमंडलिकाभिरुड्डीयमानाभिरिव वदनसरोरुहमरालि-
काधोरणीभिर्दंतकांतिलहरीभिर्द्वितीयमिव दुग्धसागरमुत्पादयंतं, बिसमि-
वामलतंतुसंततिसोदरीभिर्निर्झरणीभिरिव ब्रह्मवर्चसशैलस्य, चामरिका-
भिरिव योगसाम्राज्यस्य, मृणालिकाभिरिव धर्मपुण्डरीकाकरस्य,
हारमालिकाभिरिव सत्याधिदेवतायाः, कुसुमावलीभिरिव कृपावल्लि-
कायाः महीयसीभिः ब्रह्मसूत्रपूलिकाभिस्सीमंतितवक्षोभागं, कटितटोप-
रिवेष्टितकृष्णसारत्वचं, कालभुजगनिर्मोकपरिवेष्टितमिव चंदनतरुं,
कुवलयाकरशंकासमागतेनेव चक्रवाकयूना पावनसलिलपूरितेन
कमंडलुना परिमण्ड्यमानपार्श्वदेशम्, ऋतुगणमिव प्रज्वलितशुचितपस्सु-
रभिं, दाडिमवनमिव सततशुकसेवितं, सुहृदिवानुभूयमानसमाधिसुखं,
गंधर्वतंत्रमिव कल्पितश्रुतिमण्डलविभागं, प्रभंजनकुमारमिव प्रशमिताक्ष-
दौर्ललित्यम्, उज्ज्वलसुषुमाभिराममुत्फुल्लकमललोचनमुन्नतनासावंशमुदा-
रवदनप्रसादं, युगपदेव ते सविनया भगवंतं व्यासदेवं समानंसिषुः ॥
 
अथ तपसांनिधिः समुत्थितान् सरभसशिष्यजनपरिग्राहितबृसीस-
मर्पणादिसमुचितोपचारमुदितमनसोप्रकटितार्जवानपि प्रवणीभवतः,
करुणापय:प्रणाळिभिरिव कटाक्षवीक्षाभिः पावयमानो, मधुरासारकिरा
गिरा तानभाणीत् । अये तपोधनाः ! महनीयतेजः प्रभावानां
परिगृहीततृतीयाश्रमाणामिव दिनमणीनां भूयसः कालादागमनम्।
अपि स्वागतम् ।