This page has not been fully proofread.

<page>
<ignore lang="sa">
प्रथमोल्लासः
 
</ignore>
<verse lang="sa">
कल्पावधौ शिशयिषुः कपटार्भक
 

स्सन् पर्यंकिकां वितनुते भगवान् मुरारिः ॥
 
</verse>
<verse lang="sa">
मूलप्रांते यस्य मुग्धेंदुचूडा

युक्तिप्रौढैर्योगिभिः सेव्यमानाः ।

आम्नायानामर्थसंपत्तिरीतेः
 

प्राणा गौर्याः प्राड्विवाका भवंति ॥
 
6
 
</verse>
<p lang="sa" merge-next="true">
तस्यैकलातिप्रमाणविस्तारभाजस्तरुणशुकतनुश्यामलनवगोमय-

लेपेनविधानुमसृणितायां, मरकतशिलानिर्मितायामिव मूलवेदिकायामाय-

तकृष्णिकाभङ्गिशतकल्माषितसारङ्गतारक्षवचर्मवर्मिते मृदुलदलसंदर्भित-

दर्भासने निषेदिवांसं, प्रशस्तमतीनां स्थिरहस्तविस्तृतपुस्तकविभागानां

निजवदनकोकनदचंचरीकायमाणचारुविलोचनानाम् उपनिषदर्थनिश्चयं
 

समर्थयमानम्, अभ्रंकर्षाविटपिविटपपटलिकाव्याहन्यमानस्वकिरणावत-

रणस्य विचित्रानुभावलोकनीयस्य समालुलोकयिषया धरातलमवतीर्ण-
..

मिव सहस्रभानुं, कलिकालनिरसनकलितावतारमिव कमलासनं, हृदय-

पुटकिनीकुसुमकुटीरवास्तव्यकैटभदमनबहिर्विगलदंशुजालिकानिचोलित-
(

स्येव श्यामलस्य विसृमरैः कलेबरस्यालोकप्रपंचैरकालीनमिव मेघनिकरं

दिवसमुपनयंतं, प्रविकस्वरबालवारिकर्णिकारकलिकासखीनां कुलपालि-

कानामिव कुशेशयबंधुकिरणनिकरस्य, बाडवज्वालानामिव संसार-

सांगरस्य, शाखाशिल्पानामिव तपोहाटकवटस्य, मातृकाणामिव

सौदामनीदामनिर्माणस्य, जटाटवीनां कवलितगगनकटाहोदरकुहरैः

पिङ्गलिमप्ररोहैर्नैजावतारमिव दर्शयंतं, लेलिह्यमाननासिकावंशमूलया-

परिणामपिंजरकरवीरदलाकारजुषा मुखस्थयेव तत्त्वज्ञानदीपिकया,

मूलिकयेव ज़टालताप्रतानस्य, हिरण्मयडोलासूत्रिकयेव लपनवनजलाव-

प्यलक्ष्म्या, मुकुलकंदलिकयेव योगचंपकस्य, गोपीचंदनरसचमत्कृतया-
 

 
</p>
</page>