2026-01-24 15:17:14 by ambuda-bot
This page has not been fully proofread.
8
श्रीव्यासयोगिचरितम्
लेलिह्यमानदर्भपवित्रकाश्यामलितकरांगुलिप्रवर्त्तितावृत्तिगणनोच्चतराध्य-
यनकोलाहलसकलदिशामुखबधिरीकरणपटुभिरध्यासितपर्णशालाजिर-
पादमूलवेदिकः करांजलिसेकजंबालितकेदारिकासमेधमानकलममंजरी-
पुंजपिंजरितोपकंठो, वैतानवैश्वानरपरिरक्षणजागरूकपत्नीजनविसारि-
शुष्यद्गोमयपिंडश्यामायमानबहिरंगणो विकचतुलसीवनवितर्दिसोपानपरं-
पराप्रसाधनाराधनकर्मठजरठाचूर्णीक्रियमाणशर्करोपलशकलः, पुंजीभूत-
बालिकाकरकलितकलशावर्जितसलिलधारासिच्यमानमूलालबालबाल-
पादपो भागवाटिकांतरालकंदलदुद्गातृसामगानसमाकर्णनविस्मृताहारवि-
हारसांरगयूथः, परिसमापितस्वाध्यायहुतवहोपासनवैश्वदेवबलिदेवता-
समाराधनगृहमेधिकुलप्रतीक्ष्यमाणपरमातिथिसार्थागमनानुग्रहः, स्वधित-
पाणिशिष्यशतानुमीयमानसमित्कुशपूलिकाप्रगुणयूपारणिफलककूट-
संकटद्वारपर्यंतो, यायजूकसमानीतपशुशाबकनिकायकांतिमेचकितोप-
शल्यः, श्रवणपुटनिपीयमानहरिकथारसजनितानंदपुष्यत्पुलकमुकुल-
निचोलितकलेवरवृद्धतुमुलितचत्वरप्रदेशो, विस्मरणौषधिविशेषो विषम-
शरविलसितानां, पश्यतोहर: पातकानां प्रपामंडप : भवनिदाघतप्तानां,
कालदंडः कलिकालस्य, कुलवैतालिकः कृतयुगमहापतेरन्यादृशैरपरि-
मिताद्भुतगुणसमुदायैः
विधातारं
-
,
विस्माययतीव
मध्येऽस्य मंजुलदलं वटमुच्चशाखा
कांडप्रकांडकवलीकृतदिग्विभागम् ।
कल्पांतवातविनिपातितकालमेघ
शंकावकाशमभजंत ततो मुनींद्राः ॥
मुक्त्वा फणींद्रमपि मोहनमिंदिरायाः
वक्षोsपि यस्य वटपत्रपुटीं वरेण्याम् ।
निखिलभुवनधातारमपि