This page has not been fully proofread.

प्रथमोल्लासः
 
ममृताधारं नाम कासारमालोकयामासुः-
 
तस्योत्तरे तापससार्वभौमा: कूले दृशां गोचरयांबभूवुः !
महाश्रमं धाम वसुंधरायाः च्युतं प्रमादादिव पद्मयोनेः ॥
 
संफुल्लां सल्लकीनां मृगपतिशिशवः प्रह्वयंत्युच्चशाखा-
मारुह्योपर्यधस्तात्तरुणकरटिनः सुग्रहार्थं जिघृक्षोः ।
कंडूयंते कुरंगान् मृदुनिहितनखैद्वीपिनो मीलिताक्षा-
न्यत्राहीनां मयूरा धुतगरुदनिलैरामिषं निर्वहंते ॥
 
7
 
यश्च निरतिशयानुभावरामणीयकसंपदा सहयुध्यैव सप्तर्षिवासभव
नेन, विप्रकुशविष्टरोपविष्टैः कुमारैरिवाम्नायस्य, कंदलैरिवादिमाश्रमनिय
मानां, बीजैरिव तपसामरणिखंडैरिव ब्रह्मवर्चसकृशानोरंडैरिव
पतिव्रतामरालिकायाः, सततनिहितदूर्वादलसंपादितश्यामिकाभिर्ब्रह्मवद-
नप्रवेशनभिया पश्चान्निर्गच्छंतीभिरिव मानसतमोरेखाभि: कमंडलुनासि-
काभिरिव तनीयसीभिः शिखाभिरुद्भासमानैः स्वर्णवेणुपर्णसवर्णाकृति-
भिरुज्वलंतीभिरिव ब्रह्मतेज: शिखाभिरूर्ध्वललाटिकाभिरुन्मेषितवेषैः
स्वरोच्चारणविवरणनिरर्गलनिर्गलद्दशन किरणापदेशेन वदनकमलमाविशं
तीनां विद्यानां विकचप्रसूनांजलिविकिरणमिव वितन्वानैः,
निशाकरमयूखनिर्मितयेव धवलधवलया, ब्रह्मलक्ष्मीस्वयंवरमालि
यज्ञसूत्रिकया पवित्रीकृतगात्रैः, पावकोपासनपरिचयस्थिरलग्नधूमवलया-
नीव कृष्णाजिनोपसंव्यानानि धारयद्भिः, सौदामनीदामपिंजराभिरति-
चिरधार्यमाणप्रथमाश्रमनियमचलनसाध्वसनिबद्धकनकरज्जुभिरिव मसृ-
णाभिमजीवेणिकाभिर्वलयितकटिप्रदेशैरिगालमषीतिलकितसमुचितावय-
 
वसूचितसमिदाधानविधिभिः, स्खलितपदस्कंदसमुद्धारसरसीभवदुपा-
 
ध्यायभावनिकटतरुनिष्कुटनिलीनशुकयुवभिरंकपर्यंकनिषण्णकुरङ्गशाबक-
 
V