This page has not been fully proofread.

प्रथमोल्लासः
 
नवनीतसुगंधयो नखांता
नवनीपांकुरनंदनीयशोभाः ।
कुशलं कलयंतु गोपिकानां
 
कुचवास्तव्य कुटुंबितधुरीणाः ॥ २३ ॥
 
वात्सल्येन पयोनिधेः सुरभितं वक्षः प्रदेशं वह
 
द्वयाचक्षाणमभंगुरांगमहसा वालाहिकीं प्रक्रियाम् ।
उद्दामां शुभसंपदं निजजुषामुल्लोलकल्लोलय
 
तेजस्तादृशमादिमं विजयते सेव्यं गणैर्योगिनाम् ॥ २४ ॥
 
वाणीनामजनिस्पृशां भगवतो मांगल्यतेजोनिधेः
 
विज्ञातुः स्वयमेव तापसगणाः व्यासस्य सेवार्थिनः ।
पुंजीभूय पुरा कदाचिदखिलाः पुण्याकृतिस्पूर्तयः.
प्राविक्षन् परिपावनीं बदरिकां प्रालेयरौलालयाः ॥ २५ ॥
 
नवनीरदनंदनीयशोभे
 
नरनारयणनामधेयचिह्ने ।
 
जगतां कुशला दीक्षमाणे
 
महसी यत्र महत्तपो व्यधत्ताम् ॥ २६ ॥
 
,
 
5
 
तत्र से सकलभुवनपरिपावनसलिलप्रभावं, गंभीरिमदेशिकमिंव
जलनिधीनां, नाभीकुहरमिव वसुंधरायाः, वारिगर्तमिव दुरित-
मतंगजानां, मार्गस्थानमिव रसातलस्य, तिलकमणिमिव आर्यावर्तस्य,
स्थलदर्पणमिव वनदेवतायाः, प्रथमांकुरालवालमिवाकाशस्य, लावण्य-
रसगलनमिव दिग्वधूनां यश: पूरमिव शिशिरतायाः, मूलावलंबमिव
नैर्मल्यस्य, स्वादिमवरप्रदातारमिव सुधारसानाम्, उपादानमिव
 
,